________________
[ आख्याते ञ्यन्तप्र• ]
टीकाइयोपेता 1
( १३७ )
(सुबोधिनी) - यच्छतिर्भोजनतोऽन्यत्र मिन्न ॥ यम उपरमे इत्ययं धातुर्भोजने मित् । अन्यत्र तु न । आयामयति द्राघयति व्यापारयति वेत्यर्थः । भोजने तु यमयति ब्राह्मणान् भोजयतीत्यर्थः ॥
(तत्त्वदी० ) आयामयतीति ।। द्राघयति व्यापारयति वेत्यर्थः । भोजने तु यमयति विप्रं भोजयतीत्यर्थः ॥
( स्खदिरवपरिभ्यां मिन्न ) अवस्वादयति परिस्वादयति ॥ "ई अक्षान्तौ । ईर्ष्ययति ॥ (सुबोधिनी) - स्खदिरवपरिभ्यां अवाचिस्खदत् ॥
मिन्न ॥ घटादित्वात्प्राप्तं मित्त्वं न ।
I
(तेस्तृतीयो द्विस्तृतीयो इस एकस्वरो वा ) ऐयियत् । अङि तु । स्वरादेः परः । ऐयिष्यत् । द्वितीयपक्षे सान्ते । ईव्यिषिषति तृतीय एकस्वरपक्षे सान्ते प्रवर्तते । ञ्यन्ते तु तृतीय एकस्वराभावादित्यर्थः ॥ ॥ इति यन्तप्रक्रिया ॥
(सुबोधिनी ) - ईयतेस्तृतीयो द्विरिति ॥ तृतीयव्यञ्जनस्येति पक्षे सस्वरस्य यकारस्य द्वित्वम् । ऐष्यियत् । तृतीयैकस्वरस्येति पक्षे तृतीयाभावेन प्रकृतिवार्तिका - प्रवृत्तेः । स्वरादेः पर इति द्वित्वे षकार एव पूर्व श्रूयते हसादिः शेषात् । ऐर्षिष्यत् । तृतीयहसपक्षे षस्य द्वित्वं वारयितुमिदम् । तृतीयैकस्वरस्येति पक्षे तु स्वरादे परः इत्यस्यापवादत्वेन सान्ते प्रवर्तते ॥ इति सुबोधिन्यां जयन्तप्रक्रिया ॥
( तत्त्वदी० ) – ईर्ष्यतेरिति ॥ तृतीयः क इत्याकाङ्क्षायां मतभेदेन व्याचष्टे - तृतीयों हस इति||हसापेक्षया तृतीयो हसः । स्वरसहित इत्यर्थः॥अस्मिन्पक्षे षस्य न द्वित्वम् ॥ मतान्तरमाहएकस्वरो वेति ॥ तृतीय इत्येव । ईर्ष्यतेर्यस्तृतीय एकस्वरः स द्विर्वाच्य इत्यर्थः । अत्र पक्षे सान्ते ईयिषिषतीति सस्य द्वित्वम् । आद्यपक्ष ईयियिषतीति सान्तेऽपि रूपद्वयम्। ईर्ष्यतेः सेऽपि सषोर्वा द्वित्वमिति । द्वितीयव्याख्यायां ञ्यन्तादडि द्वितीयस्य द्वित्वे हसादिशेषेण पूर्वत्र षस्यैव श्रवणात्तृतीयाभावेनैतद्वार्तिकाप्राप्तो ऐपियदिति प्रथमपक्षे । ऐर्षिष्यदिति तु द्वितीयपक्षे । एतद्वीजं तूक्तमेव । अत्र पण्डिताः । कचित्तु ऐष्यिष्यदिति षकारादेरपि द्वित्वमुदाद्दियते । तद्भान्तप्रक्षिप्तत्वादुपेक्ष्यम् । तस्मादैथियदित्येकमेवात्र रूपं साधनीयं न त्वैर्षिष्यदिति, ज्यन्ते तृतीयस्यैकाचोऽसंभवादित्याद्दुः । तत्स्वमतिभ्रभोद्भावनायेति मन्यामहे । तथाहि । ञ्यन्ते द्वितीयव्याख्यायां तृतीयस्यैकाचोऽसंभवात् द्वितीयद्वित्वं केन निवार्यमिति स्वयमेवोहनीयमिति दिक् । निवृत्तप्रेरणात् धातोत्र केवलेन तुल्योऽर्थः । तेन ‘प्रार्थयन्ति शयनोत्थितम्' इत्यादि सिद्धम् ॥
कृतायामिह टीकायां लोकेशकरशर्मणा । बाधनं दुष्टबुद्धीनामगमज् ञ्यन्तसाधनम् ॥ १ ॥ इति तत्त्वदीपिकायां ञ्यन्तप्रक्रिया ॥ १ ॥