________________
सिद्धान्तचन्द्रिका |
अथ सान्तिप्रक्रिया ।
इच्छायामात्मनः सः ॥ धातोरात्मन इच्छायामर्थे सप्रत्ययो भवति ॥ ( द्विश्च ) आत्मनः भवितुमिच्छति बुभूषति । बुभूषांचकार । अबुभूषीत् ॥
( १३८ )
[ आख्याते सान्तप्र० ]
(सुबोधिनी ) - - इच्छायामात्मनः सः ॥ इच्छायाः क्रियारूपत्वेन कर्तरि विनानुपपन्नत्वात् कर्तुराक्षेपात् इच्छा कर्ता इष्यमाणं वस्तु यदि स्वसंबन्धित्वेनैव इच्छति तदा धातोः सप्रत्यय इत्यर्थः । तेन शिष्याणां पठनमिच्छति गुरुरित्यादौ सो न ॥ द्वेश्व ॥ सप्रत्ययान्तस्य धातोर्द्वित्वं स्यात् । भवितुमिच्छतीति कर्मनियतत्वादिषु कर्मेति लब्धम् । धातोः प्रत्ययविधानात् तदर्थत्वं लब्धम् । तेन इषिकर्मार्थवाचकाद्धातोरिच्छायां सप्रत्ययः स्यात् । तुम् तु स्वार्थिकः। साध्यावस्थां क्रियामाह । स च लौकिके वाक्ये प्रयुज्यते । केवलस्य धातोः प्रयोगानर्हत्वात् । अलौकिके तु धातुमात्र प्रयुज्यतेऽतः तुमः कथं लोप इति नो शक्यम् । अत्रात्मशब्दस्तु स्वशब्दस्य पर्यायः । संबन्धसामान्ये षष्ठी । आत्मनः स्वस्येत्यर्थः । स्वशब्देन हि इषिकर्तेव गृह्यते ॥
( तत्त्वदी ० ) - इच्छायामात्मनः सः ॥ धातोरित्यधिकारात् । इष्टिरिच्छा इषेरिच्छेरित्यत एवं निपातनादः।आत्मशब्दोऽत्र स्ववाची न तु चेतनद्रव्यवाची आत्मन इत्यस्य व्यर्थतापातात् । इच्छायामात्मकर्त्तृकत्वाव्यभिचारात् । तच्चेदिष्यमाणमिच्छाकर्तृसम्बन्धि भवति । आद्भुवि कर्मणीत्यतः कर्मणीत्यनुवर्त्य पञ्चम्या विपरिणम्य कर्मणो धातोरिति सामानाधिकरण्येन व्याख्येयम् ॥ इच्छायां किम् । कर्तुं याति ॥ आत्मनः किम् । शिष्याणां पठनमिच्छति गुरुः ॥ स्वसंबन्धित्वं चेच्छायाः • साक्षादेव, तेन शिष्याणां स्वसंबन्धित्वेऽपि न || धातोः किम् । प्रतिष्ठासते इत्यत्र प्रसहितस्थाधातोर्मा भूत् । तथा सत्यद्वित्वयोर्वैषम्यं स्यात् ॥ कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । यत्तवासुदेवेन व्याख्यातम् - इच्छा चेत्स्वस्वसंबन्धिनीति । तन्न । शिष्याणां पठनमिच्छति गुरुरित्यत्रातिव्याप्तरनिवारणात् । तथाहि।अत्र पठनस्य धात्वर्थत्वेन तत्संबन्धिन्या इच्छायाः सत्त्वात् ॥ भवितुमिच्छतीति ॥ साध्यावस्थायाः क्रियाया वाचकस्य तुमः स्वार्थकत्वेन लौकिक एव वाक्यप्रयोगः । केवलस्य धातोः प्रयोगानर्हत्वात् । न त्वलौकिकेऽपि । तेन तुमः कथं लोप इति नाशङ्कनीयम् । द्वित्यतो द्विरित्यनुवृत्तं भिन्नं वाक्यम् । तेन सप्रत्ययप्रकृतिभूतस्य धातोर्न द्वित्वं किंतु सान्तस्य । तथा च प्रतीषिषतीत्यादि सिद्धम् ॥
वुः से ॥ उवर्णान्तादृवर्णान्ताद्रहिगुहिभ्यां च परस्य सस्य नेट् ॥
(सुबोधिनी - से || उश्च आ चेति वृ तस्मात् दुः । सौत्रं पुंस्त्वम् । ऋवर्णोवर्णान्ताभ्यां ग्रहिगुहिभ्यां च परस्य सस्य नेट् ॥ ग्रहेर्नित्यं प्राप्ते गुहेर्विकल्पेन प्राप्ते निषेधोऽयम् ॥ भ सत्तायाम् । सप्रत्यये द्वित्वे च हस्वे षत्वे च बुभूषति ॥
( तत्त्वदी ० ) - वुः से ॥ उश्च आ च वृ तस्मात् । सौत्रं पुंस्वम् ॥