________________
[ आख्याते सान्तप्र० ] टीकाद्वयोपेता।
(१३९) नानिटि से ॥ इड्वर्जिते सप्रत्यये गुणो न । ऋत इर् । तितीति॥ जुघुक्षति ॥ से दीर्घः॥स्वरान्तस्य धातोर्दीर्घः स्यात् सप्रत्यये परे ॥ चिकीर्षति ॥ चिचीषति-चिकीषति ॥ जिगीषति ॥ पुपूषति ॥ यः से। पिपक्षति ॥ पिपासति ॥ मुमूर्षति ॥
(सुबोधिनी)-नानिटि से॥न इट् यस्य सोनिट तस्मिन् से इत्यस्य विशेषणम्।। बुभूषेत् । बुभूषतु । अबुभूषत् । कासादिप्रत्ययादित्याम् । बुभूषांचकार । बुभूष्यात् सिसतासीस्यपामितीट । बुभूषिता । बुभूषिष्यति । अबुभूषिष्यत् । अबुभूषीत् ॥ तृ प्लवनतरणयोः॥ ऋत इर इतीर् । योनि हसे इति दीर्घः। तरितुमिच्छाति तितीपति ॥ गुहू संवरणे। सप्रत्यये द्वित्वे च हो ढ इति ढत्वम्। आदिजवानामिति घत्वम् । 'पढोः कः से' इति कत्वम् । किलापः स इति षत्वम् । जुघुक्षति ॥ से दीर्घः । स्वरान्तस्य धातोर्दीर्घः स्यात् सप्रत्यये ॥ आदौ दीर्घस्तत इर् । चिकीर्षति ॥चिनोतः षणादौ किर्वेति किः। किकीषति-चिचीषति ॥ सपरोक्षयोगिरिति गिः। से दीर्घ इति दीर्घः । जिगीषति ॥ पूज् पवने । पुपूषति ॥ वुः से इतीड् न ॥ डुपचष् पाके । पतुमिच्छति पिपक्षति । यः से इति पूर्वस्येकारः॥पा पाने। पातुमिच्छति पिपासात ॥ मृ हिंसायाम् । पोरुरित्युर् । य्योर्विहसे इति दीर्घ मुमूर्षति॥पू पालनादौ। पुपूर्षति ॥ भृ भर्त्सनभरणयोः । बुभूर्षति ॥
(तत्त्वदी)०-नानिटि से॥न इट् यस्मिन् स तथा तस्मिन् । से इत्यस्य विशेषणम् । अपित्तादिर्डिदित्यनेन ङिचे सिद्ध नियमार्थमिदम् । अनिट् एव ङित्त्वं यथा स्यात्॥ चिकीर्षतीति ॥ आदौ दीर्घस्तत इर् ॥
(रुदविदमुषग्रहिस्वपिप्रच्छिभ्यः सः कित्) रुरुदिषात विविदिषति । मुसुषिषति । ग्रह उपादाने। हो ढः । आदिजवानामिति । षढोः का से। ग्रहीतुमिच्छति जिघृक्षति । सुषुप्सति ॥ .. (सुबोधिनी)-रुदविदमुषग्रहिस्वपिप्रच्छिभ्यासःकित्॥रुदसाहचर्यादेत्तरेव ग्रहणं रुदविदमुषाणां त्रयाणामिवर्णोपधादिति विकल्पे प्राप्ते ग्रहिस्वपिप्रच्छीनां तु सस्य कित्त्वामाप्तौ वचनम् । अत्र गुणाभावः संप्रसारणं च कित्त्वस्य फलम् ।ग्रहामिति संप्रसारणम् । ग्रहीतुमिच्छति जिघृक्षति ॥ त्रिष्वप् शये। यजां यवराणामिति संप्रसारणम् । सुषुप्सति ॥
' (कृगृहधृप्रच्छिभ्यः सस्येट)चिकरिषात । जिगरिषति । जिगलिषति। दिदरिषते । दिधरिषते । पिपृच्छिषति ॥ अतुमिच्छति जिघत्सति ॥