________________
(१४०)
सिद्धान्तचन्द्रिका। [आख्याते सान्तप्र०) ( सुबोधिनी )-कृगृधृप्रच्छिभ्यः सस्येट् ॥ कृ हिंसायाम् । गृनिगरणे । दृङ् आदरे । धृङ् अवस्थाने । एतौ तुदादी । प्रच्छ ज्ञीप्सायाम् । एभ्यः सप्रत्ययस्येट् । चिकरिषति। 'वुः से' इति निषेधे प्राप्ते विधानम् । इह वृवृऋदन्नानामितीटो दी? नेष्टो भाष्यकारेणानुक्तत्वात्। जिगरिषति।जिगलिषति । गिरतेः स्वरे रस्य लो वेति वा लः। आदनुदात्तेत्यात्मनेपदम् । दिदरिषते। दिधरिषते।कथम्, 'उदिधीर्घः' इति भौवादिकयोधृञोरिति गृहाण।से दीर्घ इति दीर्धे ऋत इरितीर । य्यं वि हसे इति दीर्धे उद्दिधीषुः ॥ ग्रहामिति संप्रसारणम् । रुदविदेति सस्य कित्त्वात्पिपृच्छिषति ॥ अद भक्षणे । सिसयोरदर्घस्ल लिटि तु वेतिं घम् । नैकस्वरादनुदात्तादिति नेट् । सस्तोज्नपीति सस्य तकारः । अत्तुमिच्छति जिघत्सति ॥
(हनिङोः से दीर्घः) जिघांसति ॥ (मुंबोधिनी)-हनिडोः से दीर्घः ॥ पूर्वाद्धन्तेर्हस्य घ इति घ वम् । जिघांसति । सूत्रे स्वरादेशस्य गमेदीर्घ इति वक्तव्यम् । तेन गच्छतेन दर्घिः जिगंस्यते । समो गम्यूच्छीत्यात् । संजिगंसते । तेन इण्इकइङां स्थाने यो गमिस्तस्य दीर्घः स्यात् । इणिकोस्तु कर्मोक्तौ जिगांस्यते । अधिजिगांस्यते इत्यादि । अत इङस्थाने इति व्याख्येयम् ॥
(इङः से गम्) (सुबोधिनी)-इङः से गम् ॥ इङो गमिः स्यात्सप्रत्यये । इङ अध्ययने । (सान्तात्पूर्ववत् ) अधिजिगांसते ॥ (सुबोधिनी )-सान्तात्पूर्ववत्॥ सप्रत्ययात्पूर्वो यो धातुस्तेन तुल्यं सान्तादपि स्यात् ॥ तेन ङित्त्वादात्मनेपदम् । हनिङोरिति दीर्घः । अधिजिगांसते ॥
(गमेः सस्ये नाति) जिगमिषति ॥ (सुबोधिनी)-गमेः सस्ये नाति ॥ आति किम् । इण गतौ । जिगांस्यते । कमण्यात् । 'यः से' इति पूर्वस्यात इत् । षत्वम् । जिगमिषति ॥
इः से॥ अपिदाधारभलभशकपतपदमिर्मानाङ्मेडां स्वरस्येम्अनिटि से परे पूर्वस्य च लोपः॥ दित्सति । धित्सति । रभराभस्ये । स्कोराद्योश्च । खसे चपा झसानाम् । रिप्सते। लिप्सतं । शिक्षति । पित्सते ॥ __ (सुबोधिनी)-इसे ॥ अपिदाधारभलभशकपतपदमिमीमाङमेकाम् एषां स्वरस्येस् स्यात् पूर्वस्य च लोपः अनिटि से॥दैप् शोधने। दाप्लवन ।आभ्यां विना दाण् दाने भ्वादौ पम् । देङ् पालने भ्वादावात्। डुदाञ् दाने दादावापे। दो अवखण्डने दिवा