________________
[ आख्याते सान्तप्र० ]
टीकाद्वयोपेता ।
( १४१ )
दौ पम् । एषां दारूपत्वम् ॥टू पाने वादौ पम् । डुधाञ् धारणे द्वादावात्पे । अनयो-र्धारूपत्वम् । रभ राभस्ये । डुलभ प्राप्तौ । शक्ल शक्तौ स्वादौ पम् । शक मर्षणे । दिवादावात् । पत्ऌ पतने । पद गतौ । डुमिञ् प्रक्षेपणे । मिङ प्राणावियोगे दिवादावात् । मी हिंसायाम् क्यादावात् । मा माने अदादौ पम् । माङ माने ह्रादौ दिवादौ चात् । मे प्रणिदाने भ्वादावात् ॥ दोदाणोः सस्तोऽनपीति सस्य तः । दित्सति ॥ दे दित्सते । दाञ् दित्सति - दित्सते । धेटू धित्सति । धाञ् धित्सति - धित्सते । रभ स्कोरिति सलोपः । खसे चपा इति भस्य पत्वम् । रिप्सते ॥ शक्ल स्कोरिति सलोपः ॥ षत्वं शिक्षति । शक् । शिक्षति । पित्सते । पत्लु पतने ॥
( तत्त्वदी ० ) -- शिक्षतीति ॥ शक्तुमिच्छतीति वाक्ये स्वरस्येसादेशपूवलोपसलोपत्वानि ॥ ( पततनदरिद्राभ्यः सस्येडा ) पिपतिषति - पित्सति । डुमित्र प्रक्षेपणे । मित्सति । मित्सते । मीञ् हिंसायाम् । मित्सति । मित्सते । मामाने । मित्सति । मेङ् प्रणिदाने माङ्मेङोः मित्सते ।
( सुबोधिनी ) - पततनद्रिद्राभ्यः सस्येड् वा ॥ एभ्यः परस्य सप्रत्ययस्य वा इड् भवति ॥ इट्पक्षे 'यः से' इति पूर्वस्येत् । पिपतिषति । स्कोरिति सलोपः । पित्सति ॥ डुमित्रमीञोः सस्तोऽनपीति सस्य तः । मित्सति । मित्सते ॥ मास्मेङोमित्सते ॥ मा मित्सति ॥
आप्नोतेरीः ॥ आप्नोतेरात ईस्से पूर्वलोपश्च ॥ ईप्सति ॥
(सुबोधिनी ) - आनोतेरात ईः ॥ आपेरान्त ईत्वं पूर्वलोपश्च स्यात् सप्रत्यये ॥ आपल व्याप्तौ । आप्तुमिच्छति ईप्सति ॥
अशेरनायो वा ॥ अशेरिच्छायां वानायप्रत्ययः ॥ अशनायति-अशिशिषति ॥ तितनिषति । ( तनेः सादौ से वा दीर्घः ) तितांसति-तितंसति ॥ दिदरिद्रिषति - दिदरिद्रासति ॥
(सुबोधिनी ) - अश भोजने ॥ अशेरनायो वा ॥ सस्यापवादः ॥ पक्षे सस्येव । स्वरादेः पर इति शिसुशब्दस्य द्वित्वम् । इस् इति सप्रत्ययस्यावयवः पूर्वस्य हसादिः शेषः । अशिशिषति ॥ तनु विस्तारे पततनेति सस्य वेट् । तितनिषति । पक्षे तनः सादौ से वा दीर्घः । अनिटि से तितांसति ॥ दरिद्रा दुर्गतौ । पततनेति वे । दरिद्रातेरन प्यालोपः सौ वेत्यलोपे षत्वे च दिदरिद्रिषति ॥
(दभिज्ञपिभ्यां सस्य वेट् ) दम्भु दम्भे । दिदभिषति । जिज्ञपयिषति । ( ज्ञपेः स्वरस्य सादौ से ईत्पूर्वलोपश्च ) ज्ञीप्सति ॥ (सुबोधिनी ) - दम्भिज्ञपिभ्यां सस्य वेट् ॥ ' यः से' इति पूर्वस्येत् । दिदम्भिपति । इडभावे ||