________________
(१४२)
सिद्धान्तचन्द्रिका। [ आख्याते सान्तप्र० ] (दम्भेरिच्च ) धिप्सति-धीप्सति ॥ (सुबोधिनी )-दम्भरिच्च ॥ स्वरस्य ईस् स्यात् इच्च पूर्वस्य लोपश्च ॥अनिटि से उपधानस्य लोप इति नलोपः । आदिजवानामिति धत्वम् । धिप्सति-धीप्सात । पुगन्तो मित्संज्ञको ञ्यन्तो जानाते पिः पकारान्तश्चौरादिको वः । दम्भिज्ञपिभ्यामिति वेट । जिज्ञपयिषति । इडभावे 'नानिटि से' इति न गुण । से दीर्घ इति दीर्घस्तु परत्वात् जेरिति जिलोपेन बाध्यते । ज्ञपेः स्वरस्य सादौ से ईत पूर्वस्य लोपश्च । अनिटि से जीप्सति ॥
(इवन्तऋधभ्रस्जश्रिस्वृयूर्णभृसनिभ्यः सस्येड्डा)दिदविषति ॥ (सुबोधिनी)-इवन्तऋधभ्रस्जश्रिस्वृयूर्णभृसनिभ्यः सस्येवा। इवन्तेभ्यः ऋधाधिभ्यश्च सस्येड् वा स्यात् ॥ दिवु क्रीडादौ । सिसतासीस्यपामितीट । दिदेविपति । इडभावे 'नानिटि से' इति न गुणः॥
(वस्यानिटि से उः) दुयूषति । अदिधिषति । (सुबोधिनी) वस्यानिटि से उः॥धातोर्वस्य उत्वं स्यात् अनिटि से ॥ यत्वं द्वित्वं च । दुयूषति ॥ ऋध वृद्धौ। अपितुमिच्छति स्वरादेः पर इति धिमशब्दस्य द्वित्वे अदिधिषति । इडभावे ॥
(ऋधेरनिटि से स्वरस्य इत्विलोपश्च)ईर्त्सति । बिभ्रजिषतिबिजिषति-बिभ्रक्षति-बिभक्षति । शिश्रयिषति । शिश्रीषति । सिस्वरिषति-सुस्वूर्षति। यियविषति-युयूषति। ऊर्ण विषति-ऊर्णनविषति-ऊर्जुनूषति । बिभरिषति-बुभूति ॥
(सुबोधिनी) ऋधेरनिटि से स्वरस्य इद्वित्वलोपश्च ॥ ऋकारस्य इस 'वोर्वि हसे' इति दीर्घः । खसे चपा झसानामिति तः ईर्त्यति ॥ भ्रस्ज पाके । इट। पक्षे भ्रस्जोरसोरिति अर् । रहाद्यपो द्विरिति द्वित्वम् । विजिषति । अरभावे श्चुत्वम्। झभे जबा इति शस्य जः। विभ्रजिषति । इडभावे स्कोरिति लोपः । छशषेति षत्वम् । षढोः कः से' इति कत्वम् । विभ्रक्षति-विभक्षति ॥ श्रिङ्ग सेवायाम् । शिश्रयिषति । इडभावे से दीर्घ इति दीर्घः। शिश्रीषति ॥ स्वृ शब्दोपतापयोः । सिस्वरिषति । इडभावे से दीर्घ इति दीर्धे 'पोरुर' इत्युर् । द्वित्वम् । सुस्वर्षति । यु मिश्रणे । अङ्सयोरिति पूर्वोकारस्येत् । यियविषति । इडभावे से दीर्घ इति दीर्षे युयूषति ॥ उM आच्छादने । ऊोंतोरिडादिन ययो वा डिदिति ङित्त्वाद्गुणाभावे नुधातारित्युत् । ऊर्णनुविषति । ङित्त्वाभावे ऊर्णनविषति।अतःपूर्व द्वित्वं पश्चाद्गुणावादेशौ । इडभावे से दीर्घ इति दीर्घः ऊर्णनूषति ॥ भृ भर्त्सनभरणयोः । विभरिषति । इडभावे पोरुरित्युर् । 'स्वोवि हसे' इति दीर्वे द्वित्वे च बुभूति ।।