________________
[ आख्याते सान्तप्र० ] टीकाद्वयोपेता।
(१४३) (स्तौतिज्यन्तयोव षे पूर्वात् सस्य षः ) तुष्टूपति॥ साधयितुमिच्छति सिषाधयिषान-सिषेधयिषति ॥ सुष्वापयिषति ॥ स्तौतिज्यन्तयोरिति किम् । सिसनिषति । षे इति किम् । सिषासति । तिष्ठासति ॥
(सुबोधिनी)-स्तौतिज्यन्तयोरेव षे पूर्वात्सस्य षः॥ पूर्वादिलात्परस्य स्तौतिज्यन्तयोरेव सस्य षः स्यात्पभूते से नान्यस्य॥ष्टुञ् स्तुतौ । षत्वे से दीर्घ इति दीर्धे च तुष्टूपति। 'वुः से' इति नेट् ॥ साध संसिद्धौ । ज्यन्तः । द्वित्वे यः से' इति पूर्वस्येत्वे षत्वे च । सिषाधयिषति ॥ स्तौतिञ्यन्तयोः किम् । षिच क्षरणे।सिसिक्षति। उपसर्गात्तु प्रादेश्च तथा तौ सुनमामिति अद्वित्वव्यवधानेऽपीति च षत्वम् । परिषिषिक्षति । वन् पन् संभक्तौ । इडभावे जनसनखनामित्यात्वं वा । सिसनिषति-सिषासति । किलादिति षत्वम् ।। ___ (तत्त्वदी०)-स्तौतिअन्तयोरेव षे॥इति॥षे इति कृतषत्वनिर्देशात्तै स्तौतिञ्यन्तस्यापि पूर्वात्पत्वम् ॥ सिषासती ॥ जनसनेत्यात्वविकल्पः । षे इति निर्देशादत्र न षत्वनिषेधः ।।
(अनिटि से उपधानस्य लोपः) तुंहू हिंसायाम् । तितृक्षति । तितहिषति ॥ __ (सुबोधिनी)-अनिटि से उपधानस्य लोपः ॥ धातोरुपधाभूतस्य नस्य लोपः स्यात् अनिटि सपर ये ॥ तृहू स्तृहू तुंहू हिंसास्तुदादौ । ऊदितौवेति वेट । इडभावे नलोपः। ढत्वे क वे पत्वे च । तितृक्षति । तिद्वंहिषति ॥
(तत्त्वदी०)-अनिटि से उपाधानस्येति॥णादिः किदित्यतः किदित्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन लक्ष्यानुसारेण सस्य कित्त्वाकित्त्वे बोध्ये । अतो गुणाभावसंप्रसारणमलोपाः सिद्धाः । विवृत्सति । वृतादि : स्यसयोर्वा पमिति परस्मैपदम् । पेऽनिट्वं चेति इडभावः ।
(इणः से गमबोचने) एतुमिच्छति जिगमिषति।बोधने तु प्रतीषिषति ॥ इण्वदिकः। अधिजिगमिषति । बोधने तु अधीषिषति॥
(सुबोधिनी)-इणः से गमबोधने ॥इणेर्गम् स्यात् सप्रत्यये परे बोधनेऽर्थे तु न॥ एतुमिच्छति गमः सन् येडिती । जिगमिषति । बोधने तु 'यः से' इति सरूपस्य पूर्वस्येत्वम् । प्रतीषिपति ॥ इण्वदिकः।इक् स्मरणे । गमेः सस्येतीट्। अधिजिगनिषतिा (इवर्णोवर्णोपधाद्धसाइरसान्ताद्धान्ताच क्त्वासौ सेटौ वा कितौ) दिद्युतिषते-दिद्योतिषते । रुरुचिषते-रुरोचिषते । लिलिखिपतिलिलेखिपति । सिनिहिषति-सिस्नेहिषति-सिस्निक्षति । (गयो हिंसायामिर से द्वित्वलोपश्च)रित्सति।अन्यत्र आरिरात्सतिगुरुम् ॥