________________
(१४४)
सिद्धान्तचन्द्रिका। [आख्याते सान्तप्र० ] (सुबोधिनी)-इवर्णोवर्णोपधाद्धसादेरसान्ताद्धान्ताच्च क्त्वासौसेटौ वा कितौ । द्युत दीप्तौ । द्युतेः पूर्वस्यति संप्रसारणम् । कित्वाद् गुणी न । दिद्युतिषते, दिद्योतिषते ॥ एवं रुच दीप्तौ । लिख अक्षरविन्यासे । ष्णिह प्रीतौ । राधो हिंसायामिस् से द्वित्वलोपश्च । राधस्वरस्येत्यर्थः । राध संसिद्धौ । स्कोरिति सलोपे 'खसे चपा०, इति धस्य तः । रित्सति॥हिंसायां किम् । देवमारिरात्सति । 'यः से' इति पूर्वस्येत् । 'खसे चपा' इति धस्य तः ॥
(मुचोऽकर्मकस्य गुणो वा से द्वित्वलोपश्च ) मोक्षते-मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्योत किम् । मुमुक्षति वत्सं कृष्णः॥ विवर्तिषते । विवृत्सति ॥ निनतिषति-निनृत्सति ॥ वृऋदन्तात्सस्यड्वा । तितरिषति-तितरीषति-तितीर्षति । विवरिषतेविवरीषते-बुर्षते । विवरिषति-विवरीषति-वुवूर्षति ॥ ध्वकौटिल्ये। दुध्यर्षति ॥
(सुबोधिनी)-भुचोऽकर्मकस्य गुणो वा से द्वित्वलोपश्च॥मुच्ल माक्षणे । चोः कुरिति कः । मोक्षते-मुमुक्षते ॥ अकर्मकस्य किम् । मुमुक्षात । 'नानिटि से' इति गुणाभावः ॥ वृतु वर्तने । वृतादिभ्यः स्यसयोरिति वा पम् । पेनिट्त्वं च । 'नानिटि से' इति न गुणः। विवृत्सति-विवर्तिषते ॥ नृती गात्रविक्षेपे । नृततुंदेति वेट् । 'नानिटि से' इति न गुणः । निनृत्सति-नर्तिपात ।
वृ दन्तात्सस्येड् वा ॥ तृ प्लवनतरणयोः । वृङवजिति वेटो दर्घिः । तितरिपति-तितरीपति । इडभावे ऋत इरितीर । 'स्वोर्विं हसे' इति दीर्घः। तितीर्षति॥वृञ् वरणे । वृवृञ् इति वेटो दर्घिः। विवरिषति-विवरीषति । इडभावे पोरुरित्युर् । वुवूर्षति॥एवं वृङ् संभक्तौ । विवरिपते-विवरीषते-बुवूर्षते ॥ ध्वृ कौटिल्ये । दूध्वूर्षति ॥ (तत्त्वदी०)-दुध्व॒र्षतीति ॥ प्रथमं दीर्घस्ततः 'पोरुर' ततो 'बोर्वि हसे' इति दीर्घः ॥
(स्मिपङ्कज्ज्वशिभ्यः सस्येट् ) सिस्मयिषते । पिपविषते । अरिरिषति । अञ्जिजिषति । अशिशिषते । उचिच्छिषति । अधिजिगापयिषति । अध्यापिपयिषति । शिश्वाययिषति-शुशावयिषति । जुहावयिषति । पुस्फारयिषति-पुस्फोरयिषति । पिपावयिषति । बिभावयिषति । यियावयिषति । रिरावयिषति । लिलावयिषति । सिस्रावयिषति-सुस्रावयिषति ॥
(सुबोधिनी)-स्मिपूज्वशिभ्यः सस्येट्॥स्मिङ् ईषद्धसने। अस्यानिट्वादिडागमस्याप्राप्तिः। स्तौतिञ्यन्तयोरेवेति नियमान्न षः । सिस्मयिषते ॥ पूङपवने । 'वुः से' इति निषधे प्राप्ते अङ्-सयोरिति पूर्वोवर्णस्येत् । पिपविषते ॥ ऋ गतौ॥