________________
[ आख्याते सान्तप्र० ] टीकास्योपेता। अस्याप्यनिट्त्वादिडागमस्याप्राप्तिः। सस्य इटि गुणे च कृते अरि स इति स्थिते स्वरादेः पर इति रिसशब्दस्य द्वित्वे अरिरिषात । अञ्जू व्यक्तिम्रक्षणादौ ॥ अशू व्याप्तौ। अनयोरूदित्त्वादिविकल्पे प्राप्ते नित्यमिट् । अश भोजने इतियादिस्तुनित्यं सेडेव । आञ्जिजिषति । अशिशिषते । उछ उञ्छे । अत्र छ इति छस्य द्वित्वे खसे चपा झसानामिति चकारे कृते च्छसहितस्येटो द्वित्वे हसादिशेषे च उचिच्छिषति ॥ इङ् अध्ययने । अध्यापयितुमिच्छति अङ्सपरे जो इङो गा वेति वा गा। रातो जो पुगिति पुक्। अधिजिगापयिषति। पक्षे इक्रीजीनामित्यात्वं स्वरादेः पर इति पिशब्दस्य द्वित्वे अध्यापिपयिषति॥टु ओश्विर गतिवृद्धयोः। श्वयतेच॑न्तस्येति वा संप्रसारणम् । शिश्वाययिषति-शुशावयिषति॥ह्वेस्पायाम् । द्वयतेरङ्सपरे इति संप्रसारण युगभावे च कृते जुहवियिषति॥ स्फुरविकसने । औचिस्फुरोरित्यात्वेकृते जिनिमित्तः स्वगदेश इति वचनेनतस्यस्थानिवद्भावादुकारविशिष्टस्यद्वित्वम् । पुस्फारयिषति । आत्वाभावे पुस्फारयिषति । टुक्षुशब्दे । चुक्षावयिषति ॥ पुत्र पवने । अङ्सयोरिति॥ पूर्वोवर्णस्येत्वम् । पिपावयिपति।भूसत्तायाम् । भावार्यतुमिच्छति । पूर्वस्येत्वम्। बिभायिषात ॥ यु मिश्रणे । अत्रापात्वम् । यियावयिषति ॥ रु शब्दे । पूर्वस्येत्वम् । रिरावयिषति ।। लुज छेदने लिलावयिषति ॥ स्रु गतौ । स्रवतिशृणोतिद्रवतीतीत्वं वा । सिस्नावयिषति-सुस्रावयिषति ॥
(तत्त्वदी०)-स्मि-पूङ ॥ स्मिङ् ईषद्धसने । पुङ पवने । ऋगतौ। ऋ गतिप्रापणयोश्च । अञ्जू व्यक्तिम्रक्षणकान्तिगतिछु । अशू व्याप्तौ । रञ्ज रागोवश कान्तावित्येतयोर्धमो न कार्यः । स्मिढोऽनिट्त्वादप्राप्ते ऋपुङोस्तुवुःसे'इति निषेधे अवशोस्तूदित्त्वाद्विकल्पे प्राप्त वचनम् । ऋइत्यादीनां ग्रहणादकारान्ता न ग्राह्याः । सिस्मयिषत इति ॥ ञ्यन्तयोरेवेति नियमान्न षः । डानुबन्धग्रहणात्तु पूञः पुपूर्षतीत्येव ॥ अरिरिषतीति ॥ ऋ इ स इति स्थिते गुणे आरि स इति. स्थिते । स्वरादेः पर इति रिशब्दस्य द्वित्वम् ॥ पिपावयिषतीत्यादि । ज्यन्तात्से असयोः पूर्वस्येति इकारः । नदी वृक्षमुन्मूलयिषति । वृष्टी राजिम भिषिषिक्षतीत्याये तु चेतनत्वारोपात्सः । पाषाणादीनां संबोधनवत् ॥
(सान्तात्सो न स्वार्थसान्तात्तु स्यादेव ) जुगुप्सिषते ॥ इति सान्तप्रक्रिया ॥
(सुबोधिनी)-सान्तात्सोन स्वार्थसान्तात्तु स्यादेव॥"शैषिकान्मतुबर्थीयाच्छेषिको मतुर्थिकः ॥ सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥१॥" शैषिकाच्छेषिकः सरूपः प्रत्ययो नेष्टः । शालीये भव इति वाक्यमेव । न तु ईयान्तात् पुनरीयः ॥ सरूपः किम् । आहिच्छत्रे भवः आहिच्छत्रीयः। अण्णन्तादीयः॥