________________
(१४६)
सिद्धान्तचन्द्रिका। [आख्याते यङन्तप्र० ] तथा मत्वर्थीयात् मतुबर्थिकः सरूपः प्रत्ययो न भवति। धनवानस्यास्ति । वत्वन्तात् न वतुः। विरूपस्तु स्यादेव । दण्डिमती शाला । सरूप इत्यनुसंबध्यते।सरूपः सादृश्य तत्तु अर्थद्वारा । तेनेच्छासान्तादिच्छासो न भवति । स्वार्थमान्तात्तु स्यादेव । गुब्भ्य इति स्वार्थे सप्रत्ययः । तदन्तादिच्छासः। जुगुप्सिषते । 'यः से' इतीत्वे मानादीनामिति दीर्घ च । मीमांसिषते । गुप गोपने ॥ मान विचारणे ॥ इति सुबोधिन्यां सान्तप्रक्रिया ॥ (तत्त्वदी० )-सान्तात्सो नेति॥अतिशये हसादेर्यङ् द्विश्च यतश्चकारानुवृत्तरेतद्बोध्यम् ।। कृतायामिह टीकायां लोकेशकरशर्मणा । बाधनं दुष्टबुद्धीनामा मत्सान्तसाधनम् ।
इति तत्त्वदीपिकायां सान्तप्रक्रिया ॥ २ ॥
अथ यङन्तप्रक्रिया। _अतिशये हसादेर्य द्विश्च॥ हसादेरेकस्वरा द्रातो शार्थे पौनःपुन्ये च यङ् प्रत्ययो भवति द्वित्वं च ॥ ___ (सुबोधिनी)-अतिशये हसादेर्यङ् द्विश्च ॥ हस आदिर्यस्य स हसादिस्तस्मादेकस्वराद्धातोर्यङ स्यात् । यङन्तस्य धातोदित्वं च अतिशयऽर्थे । अतिपूर्वात् शीडो भावे स्वराद इत्यः। अतिशयो द्विविधः । पौनःपुन्यम् भृशार्थश्च ॥ अतिशये किम् । पठति ॥ एकस्वरात्किम् । पुनःपुनर्जागर्ति ॥ हसादेः किम् । भृशमीक्षते । भृशं शोभते । भृशं रोचते । इत्यादौ यड़ नेति भाष्यम् । पौनःपुन्ये तु स्यादेव रोरुच्यते शोशुभ्यते ॥
(तत्त्वदी० )-अतिशये हसादेर्यङ् द्विश्च॥अतिशय नमतिशयः।अतिपूर्वात् शीडो भावे स्वराद इत्यप्रत्ययः स च द्विविधः पौनःपुन्यं भूशार्थश्च । स च र्थो यङो द्योत्य एव । हस आदिर्यस्य स तथा तस्मात् द्विरित्यपरं वाक्यं धातोर्विचनम् । धातु यङन्त एव न तु यङः प्रकृतिभूतः । अटाटयत इत्याद्यसिद्धः ॥
यङि॥ यङि यलुकि च पूर्वस्य नामिनो गुणः ॥ सधातुः। ङित्त्वादात् । भृशं पुनः पुनर्वा भवति बोभूयते । बोभूयांचक्रे । बोभूयिषीष्ट । अबोभूयिष्ट ॥ बोभुज्यते ॥ __ (सुबोधिनी)-यङि ॥ यङ्प्रत्यये लुकि च पूर्वस्येत्य वृत्तम् ॥ भू सत्तायाम् । धातुरिति धातुत्वाल्लडादयः डिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयेते । बोभूयताम् । अबोभूयत । कासादिप्रत्ययादित्याम् । यत इत्यलोपः। बोभूयांचक्रोबोभूयिषीष्ट । बोभूयिता । बोभूयिष्यते । अबोभूयिष्यत । अबोभूयिष्ट ॥ भुज पालनादौ । अतिशयेन भुनक्ति बोभुज्यते ।