________________
[ आख्याते यङन्तप्र० ]
टीकाद्वयोपेता |
( १४७ )
(तत्त्वदी० ) - यङीति ॥ यङो ङित्त्वादात् ॥ अत्र केचित् । कथं यङन्तादात्, ङितो - धातोराद्विधानात् । अत्र च यो ङित् स न धातुः यो धातुः स च न ङित् । किं च ङस्य गुणनिषेधादिप्रयोजकत्वेन चरितार्थत्वादात्मनेपद जकत्वासंभवः । अवयवे कृतं लिङ्गमचरितार्थं समुदायविशेषकं भवतीत्युक्तेः । अत्रोच्यते । सधातु रेत्यनेन यङन्तस्य धातुत्वेन धातोर्डिवसत्त्वात्। गुणनिषेधार्थं च डकारप्रश्लेषस्य कर्तव्यत्वात् । बोभूयत इति ॥ भवनानुकूल एकाभिन्नाश्रयको वर्तमानोऽतिशयविशिष्टो व्यापारः ॥
अनपि च हसात् ॥ हसादुत्तरस्य यस्य लोपो भवत्यनपि विषये ॥ बोभुजांचक्रे । बोभुजिता ॥ मोमुह्यते। मोमुहांचक्रे ॥ लेलिह्यते ॥ जोहूयते ॥ वेविद्यते ॥
(सुबोधिनी) - अनपि च हसात् ॥ हसात्परस्य यशब्दस्य लोपोनपि ॥ हसा - त्किम् । लोलूयिता ॥ योयूयिता । आदेः परस्य ॥ परस्य यद्विहितं तत्तस्यादेबोंध्यमिति यलोपः । यत इत्यलोप । बोभुजांचक्रे । बोभुजिषीष्ट । अल्लोपस्य स्थानिवत्त्वानोपधागुणः ॥ एवं मुह वैचित्य । लिह आस्वादने । हु दानादनयोः । ये इति दीर्घः ॥ जोहूयते । विद ज्ञानादौ । वेविद्यते । डुपचष् पाके ॥
आतः ॥ यङि यङ्लुकि च पूर्वस्यात आकारः ॥ पापच्यते । पापठ्यते ॥
( सुबोधिनी )-आतः ॥ आ अत इति च्छेदः । पूर्वस्येत्यनुवृत्तम् । पापच्यते ॥ पठ व्यक्तायां वाचि पापठ्यते ॥
( तत्त्वदी ० ) - आत इति ।। आ आ अत इति च्छेदः । द्वितीयाकारस्य वैयर्थ्यानुपपत्या किञ्चिदिष्टं ज्ञाप्यते किं तदिष्टम् अकित्पूर्वस्याकारस्याकार इति तेन नरीनृत्यत इति सिद्धम् ॥ ( सिचो यङि न षः ) सेसिच्यते ॥
(सुबोधिनी) - सिचो यङि न षः ॥ सिचेः सस्य षत्वं न स्यात् यङ्प्रत्यये परे ॥ षिच क्षरणे । सेसिच्यते ॥
(सूचिसूत्र मूत्र्ययर्त्यशूर्णोतिभ्यो यङ् ) सोसूच्यते । सोसूत्र्यते । मोमूत्र्यते ॥
( सुबोधिनी ) - सूचि त्रिमूत्र्यटयर्त्यशूर्णो तिभ्यो यङ् ॥ सूच पैशुन्ये । सूत्र वेष्टने । मूत्र प्रस्रवणे । एतं त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । मोमूत्र्येते ॥ अट गतौ । गौः कुटिलमटाते । इह ट्यशब्दस्य द्वित्वम् । आत इत्यात्वम् । अटाटयते । ऋ गतौ । कुटिलमृच्छति गुणोत्तिसंयोगाद्येोरिति गुणः ॥
१ यत इत्येनन यलोपत्वादिदं चिन्त्यम् ।