________________
(१४८)
सिद्धान्तचन्द्रिका। [ आख्याते यङन्तप्र० ] (तत्त्वदी०) सूचिमूत्रि ॥ सूच पैशुन्ये । सूत्र वेष्ट । मूत्र प्रस्रवणे । अट गतौ । ऋ गतौ । अश भोजने । अशूङ व्याप्तौ । उMञ् आच्छादने । तन्ाद्यानां त्रयाणां चुरादिञ्यन्तत्वेनानेकस्वरत्वादटयादीनां च हसादित्वादप्राप्ते वचनम् ।।
(यकारपररेफस्य न द्वित्वनिषेधः) अरायते । अरारांचक्रे । अशाश्यते । ऊोनूयते ॥
(सुबोधिनी) यकारपररेफस्य न द्वित्वनिधः ॥ यकारः परो यस्मात् स यकारपरः यकारपरश्चासौ रेफश्च यकारपररेफस्तस्य । ततो र्यशब्दस्य द्वित्वे हसादिशेषे आत इति दीर्घ च अरार्यते इति भाष्योदाहरणात्। लिटे अनाप च हसादिति यलोपः। यत इत्यलोपः। अरारांचक्रे । लुटि । अरारिता ॥ अशूङ व्याप्तौ । अशाश्यते ॥ 'ऊर्गुञ् आच्छादने । 'ये' इति दीर्घः । ऊर्णोनूयते ॥
(तत्त्वदी०)-अरार्यत इति॥ऋय इति स्थिते गुणे कृते यशब्दस्य द्वित्वे हसा दिशेषे आत इति दीर्घः ॥ ऊोनृयत इति ॥ णत्वस्यासिद्धत्वान्नुशब्द प द्वित्वम् ।
(गत्यर्थात्कौटिल्ये एव यङ्) कुटिल मटति अटाट्यते॥कुटिलं व्रजति वाव्रज्यते ॥
(सुबोधिनी)-गत्यर्थात्कौटिल्ये यङ् ॥ कुटिलस्य भावः कौटिल्यम् ॥ व्रज गतौ । कुटिलं व्रजति आत इति पूर्वस्यात्वम् । वाव्रज्यते ॥
( तत्त्वदी०) अटाटयत इति ॥ एकभिन्नाश्रयो वक्रगत्यनुकूलो वर्तमानकालिको व्यापार इति । कौटिल्यस्य फलविशेषणत्वे व्यापारविशेषणत्वे तु पक्रो गत्यनुकूलोव्यापार इति शेषः॥
(लुपसदचरजपजभदहदंशगृभ्यो धात्वर्थगर्हायामेव यङ् ) गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥
(सबोधिनी)-लुपसदचरजपजभदहदंशगो धात्वर्थगर्हायामेव यङ्॥ लपल छेदने । गर्हितं लुम्पति लोलुप्यतेोषद्ल विश णादौ । आत इति पूर्वस्यात्वम्। गर्हितं सीदति सासद्यते ॥ -(तत्त्वदी०) धात्वर्थगर्हायामेवेति॥गहापि फलस्य व्यापारस्य वा विशेषणम् । लोलुप्यते वनं चैत्रः । चैत्राभिन्नाश्रयो वनाभिन्नाश्रितकुत्सितच्छेद नानुकूलो वर्तमानकालिको व्यापारः । . वनाभिन्नाश्रयः छेदनानुकूलः कुत्सितो व्यापार इति वा ॥
अमजपां नुक॥ ञमान्तस्य जपजभन हदंशभञ्जपसचरफलां च । पूर्वस्यादन्तस्य नुयङ्लुकोः॥
(सुबोधिनी)-अमजपा नुक् ॥ जप व्यक्ताया वाचि। जभी गात्रविनामे । दह भस्मीकरणे । दश दशने । भञ्जो आमर्दने । पस धातु ईन्त्यान्तः सौत्रो गत्यर्थः। ताल