________________
'[ आख्याते यङन्तप्र० ] टीकाद्वयोपेता।
(१४९) व्यान्त इति माधवः । चर गत्य दौ । त्रिफला विशरणे । फल निष्पत्तौ वा। एषां जमप्रत्याहारान्तस्य चं नुक यङ्यङ्लुकाः॥
(चरफलोः पूर्वात्परस्यात उद्यलकोः) चञ्चूर्यते-चंचूर्यते। चञ्चुरांचक्रे ॥ पम्फुल्यते ॥ नुगित्यनेनानुस्वारो लक्ष्यते । स च पदान्तवत् ॥ जनप्यते-जंजप्यते ॥
(सुबोधिनी)--चरफलोः पूर्वात्परस्यात उद्यङ्लुकोः॥ पूर्वाद् द्वित्वरूपादुत्तररूपस्यात उत्वमित्यर्थः। नुनित्यनेनानुस्वारो लक्ष्यते स च पदान्तवत् । ञमजपामिति नुमागमोऽनुस्वारं बोधयति । सोऽनुस्वारः पदान्तकार्य लभत इत्यर्थः । तेन वा पदान्तस्येत्यनेन वा परसवर्णः। चञ्चूर्यते-चंचूर्यते ॥ (तत्त्वदी०)-स च पदान्तवदिति ॥ तेन वेति यथा स्यात् ।।
(गिरते रेफस्य लत्वं यङि) जेगिल्यते॥ यय्यम्यते-यंयम्यते । दीङ्क्षये । देदीयते ॥ आंप्यायी वृद्धौ । पेपीयते ॥ चञ्चम्यते-चंचम्यते ॥ चाखायते-चखन्यते-चंखन्यते॥ चङ्कण्यते-चंकण्यते॥ तन्तन्यते-तंतन्यते ॥ जनभ्यते-जंजभ्यते ॥ दन्दह्यते-दंदह्यते ॥ दन्दश्यते-दंदश्यते ॥ बम्भज्यते-बंभज्यते ॥ पस बाधनग्रन्थनयोः॥ पम्पस्यते-पंपस्यते॥
(सुबोधिनी)-गिरते रेफर य लत्वं यङि ॥ गृ निगरणे इत्यस्य रेफस्य लत्वं स्याद् यङि ॥ गर्हितं गिलति गिल्यते॥ यम उपरमे । कण निमीलने। तनु विस्तारो यमान्तत्वादेषांपूर्वस्य नुक । यर म्यते--यंयम्यते ॥चङ्कण्यते-चंकण्यते ॥ तन्तन्यतेतंतन्यते ॥ (तत्त्वदी०)जेगिल्यत इत॥ गिलनस्य च गर्हितत्वं विवृतास्यचेष्टादिकृतम् ।।
रीगृदुपधस्य ॥ ऋत्वतो धातोर्यङि परे पूर्वस्य रीक् ॥ नरीनत्यते ॥ वरीवत्यते ॥ जरीगृह्यते ॥ वरीवृश्च्यते ॥ परीपृच्छचते॥ चलीक्लप्यते॥
(सुबोधिनी )-रीगृदुपधस्य ॥ ऋदुपधस्य धातोः पूर्वस्य रीग्यङि ॥ ऋदुप-. धस्योत किम् । चेकीर्त्यते ॥ भावपक्षे एकस्वरत्वाद्यङ्॥ नृती गात्रविक्षेपे। क्षुम्नादित्वान्नणत्वम् । नरीनृत्यंत। वृतु वर्तने । अतिशयेन वर्तते वरीवृत्यते॥ ग्रह उपादान। ओवश्चू छेदने । प्रच्छ ज्ञीप्सायाम् । ग्रहामिति संप्रसारणम् । जरीगृह्यते । वरीवृश्च्यते । परीपृच्छयते ।रागिति योगविभागादुभयत्र रीक्॥ कृपू सामर्थे । उभयत्र लत्वम् । चलीक्लप्यते ॥