________________
(१५०)
सिद्धान्तचन्द्रिका। [ आख्याते यङन्तप्र० ] ' (वशेर्यङि न संप्रसारणम् ) वावश्यते ॥ ( वयतेर्वा ) शोशूयते-शेश्वीयते ॥ सास्मर्यते ॥
(सुबोधिनी)-वशेङि न संप्रसारणम् ॥ ग्रहामिति प्राप्ते निषेधः । वश कान्तौ । आत इति पूर्वस्यात्वम् ॥ अतिशयेन वष्टि वावश्यते । टु ओश्वि इर् गतिवृद्धयोः॥ श्वयतेवेति विकल्पेन संप्रसारणम् यङि । 'ये' इति दीर्घः। शोशूयतेशेश्वीयते ॥ स्मृ चिन्तायाम् ॥ गुणोऽर्तिसंयोगाद्योरिति गुणः । आत इति पूर्वस्यात्वम् ॥ सास्मर्यते ॥
(कवतेः पूर्वस्य न चुत्वं यङि) कोकूयते ॥ (सुबोधिनी)-कवतेः पूर्वस्य न चुत्वं यङि॥ कवतेन्त्यिपा निर्देशात् 'कुडू शब्दे' इति भ्वादिरेव गृह्यते न तु कुशब्दे इत्यादादिकः । 'कड़ शब्दे' इति तौदादिकश्च । 'ये' इति दीर्घः। कोकूयते ॥
(वञ्चुस्रंसुधंसुध्वंसुकसपतपदस्कन्दा यङि राङलुकि च पूर्वस्य नीक । वनीवच्यते ॥ सनीस्रस्यते ॥ दनीध्वस्यते ॥ बनीभ्रस्यते ॥ चनीकस्यते ॥ पनीपत्यते ॥ पनीपद्यते ॥ चनीस्कद्यते ॥
(सुबोधिनी)-वन्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दा यङि यङ्लांक च पूर्वस्य नीक् ॥ वञ्चु वंचने ॥ स्रंसु ध्वंसु भ्रंसु अधःपतन । कस गतौ । पत्लू पतने । पद गतौ । स्कन्दिर गतिशोषणयोः। आत इत्यस्याप पदः । नो लोप इति नलोपः । वनीवच्यते ॥ (तत्त्वदी०)--वञ्चु वनीवच्यत इति । नो लोपः । दीर्वोच्चारणसामर्थ्याद्भस्वगुणौ न ॥ ऋतो रिङ् ॥ येऽनपि ॥ चेक्रीयते ॥ जेहीयते । वेव्रीयते ॥ (सुबोधिनी)-ऋतो रिङ्॥यप्रत्ययेनापि । 'ये' इति दर्घिः। परत्वाद् रिआदेशे कृते द्वित्वम् । डुकृञ् करणेोचेक्रीयते ॥ हृञ् हरणे । जेबीयते । वृवृजोः वेव्रीयते ।
दादेरिः॥ अपिदाधामागेहापिबतिसोस्थामिकारः क्ङिति हसे। अनपि ॥ देदीयते ॥ देधीयते ॥ मेमीयते ॥ जेगीयते ॥ जेहीयते ॥ पीयते ॥ सेषीयते॥ तेष्ठीयते ॥
(सुबोधिनी)-दादेरिः ॥ डुदाञ् दाने ॥ दो अवखण्डने । देङ पालने। अनयोः संध्यक्षराणामित्यात्वे दारूपम् दाप्दैपौ विना ॥ डुधाञ् धारणादौ ॥ मा माने । माङ माने ॥ मेङ् प्रणिदाने ॥ गै शब्दे ॥ ओहाक् त्यागे । पा पाने ॥ षो अन्तकर्मणि ॥ ष्ठा गतिनिवृत्तौ ॥ एषामिकारः स्यात् किति हसेऽनपि । अनेनेत्वे द्वित्वम् यडीति गुणः । देदीयते। इत्यादि ॥