________________
[ आख्याते यङ्लुगन्तप्र० 1 टीकाद्वयोपेता ।
(घ्राध्मारयङि ) जेघ्रीयते ॥ देध्मीयते ॥ (सुबोधिनी) - घ्राध्मोरीर्यङि ॥ दीर्घोच्चारणं यङ्लुगर्थम् । घ्रा गन्धोपादाने ॥ ध्मा शब्दाग्निसंयोगयोः । जेधीयते ॥ देध्मीयते ॥ (हन्तर्हिसायां नीभावः) जेनीयते । हिंसायां किम् । जङ्घन्यते ॥
(१५१)
सुबोधिनी ) - हन्ते हिंसायां घ्नीभावः ॥ याङ नीभावे सति द्वित्वम् । जेघ्नीयते । हिंसायां किम् । जङ्घन्यते । पूर्वार्द्धन्तेरिति घः ॥
(
(तत्त्वदी ० ) - जेनीयत इति ॥ नीभावेन न द्वित्वबाधः विषयभेदात् । ह्रस्वेन सिद्धेऽपि प्रक्रियालाघवाय घ्नीः । एवमन्यत्रापि ॥
( स्वपिस्यमिव्येञां यङि संप्रसारणम् ) सोषुप्यते॥ सेसिम्यते॥ वैवीयते ॥
(सुबोधिनी ) - स्वपिस्यमिव्येञां यङि संप्रसारणम् ॥ ञिष्वपू शये ॥ स्यमु शब्दे ॥ व्येञू संवरणे । षत्व सोपुप्यते इत्यादि ॥
( चायः कीर्यङि ) चेकीयते ॥ जाजायते - जञ्जन्यते ॥ शीङोऽयङ. ये क्ङिति ॥ शाशय्यते ॥ डोढाँक्यते ॥ तोत्रौक्यते ॥ इति यङन्तप्रक्रिया |
(सुबोधिनी) - चायः कीर्यङि ॥ यङि परे चायः कीः स्यात् ॥ दीघोंच्चारणं यङ्लुगर्थम्। चायृ पूजानिशामनयोः । चेकीयते ॥ जनी प्रादुर्भावे । जनसनखना मित्यात्वम् । जाजायते । पक्ष यमजपामिति पूर्वस्य नुक् । जञ्जन्यते - जंजन्यते । शीङो ऽय ये क्ङिति । ङित्त्वादन्तादेशः । परत्वादन्तरङ्गत्वा चायङादेशे कृते द्वित्वम् । आत इति पूर्वस्यात्वम् । यत इत्यल्लोपः । शाशय्यते ॥ ढौकृ त्रौकृ गतौ । हस्व इति पूर्वस्य हस्वे ततो यङीति गुणः। डोढौक्यते ॥ तोत्रौक्यते ॥ इति सुबोधिन्यां यङन्तप्रक्रिया |
( तत्त्वदी ० . ) - कृतायामिह टीकायां लोकेशकरशर्मणा । मता भाष्यकृतो भव्या यङन्तप्रक्रिया गता ॥
इति तत्त्वदीपिकायां यङन्तप्रक्रिया ॥ ३ ॥
अथ यङ्लुगन्तप्रक्रिया |
वान्यत्र ॥ उकप्रत्ययसंयोगं विना यङो वा लुक् ॥ यङ्लुगन्तात्पम् । यङ्लुगन्तमदादा बोध्यम् । अदादित्वादपो लुक् । यङ्लुकि सति ॥
(सुबोधिनी ) - वान्यत्र । लुगिति सूत्रमनुवृत्तम् | उकप्रत्यये यङो लुग विधी. यते ददशूक इत्यादौ । अन्यत्र उकप्रत्ययाभावे यङ्प्रत्ययस्य वा लुग्भवति । लुगभावे यङ्प्रत्ययान्तं भवतीत्यर्थः । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययल