________________
( १५२ )
सिद्धान्तचन्द्रिका |
[आख्याते यङ्लुगन्तप्र० ]
क्षणेन यङन्तत्वाद्दित्वादि । धातुत्वालडादयः । परतोऽन्यदिति परस्मैपदम् । आदनुदात्त ङित इत्यनेनात्मनेपदं तु न भवति । येऽपि स्पर्द्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न अनुबन्धनिर्दिष्टत्वात्। उक्तं च " शितपा शपानुबन्धेन निर्दिष्टं यहणेन च । यत्रैकाजूग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १ ॥” इति निषेधात् एतानि पञ्च कार्याणि यङ्लुकि न प्रवर्तन्ते । तान्याह । शितप्प्रत्ययनिर्दिष्टं कार्यम् इतिपाविति तिपू । शपा अप्प्रत्य-येन निर्दिष्टम् अप् कर्तरीत्यपू । अनुबन्ध निर्दिष्टं यङो ङित्त्वादि। गणनिर्दिष्टं दिवादेर्य इत्यादि। एकस्वरनिर्दिष्टं नैकस्वरादनुदात्तादित्यादि । यथा गदनदेति सूत्रे शितपा शपा च निर्दिष्टत्वाद्यङ्लुकि णत्वं न प्रणिजङ्ङ्घन्ति । प्रनिजागदीति ॥ लित्पुषादेरित्यत्रानुबन्धेन गणेन च निर्दिष्टत्वाद् ङो न । अजङ्गमीत् । अववर्तीत् । नैकस्वरादित्यत्रैकस्वरनिर्दिष्टत्वादिनिषेधो न । बेभेदिता । चेच्छेदितेति ॥ अत एव यादयो न, गणेन निर्दिष्टत्वात् किं तु अबेव ॥ यङ्लुगन्तमदादौ बोध्यम् । अदादित्वादपो लुक् । भू सत्तायाम् । यङि लुकि सति ॥
(तत्त्वदी ० ) - वान्यत्र ॥ लुक इति सूत्रमात्रमनुवर्तते । तेनोकप्रत्यये यङो लुग्विधीयते ॥ दंदशूक इत्यादौ । अन्यत्रेति व्याचष्टे उकप्रत्ययसंयोगं विनेति । एवं व्यवस्थायामन्यत्र यङो लुगित्यर्थः ॥ यङ्लुगन्तात्पमंति ॥ अत्र दीक्षिताः । प्रत्ययलक्षणेन ङित्त्वामाश्रित्यात्मनेपदत्त्वस्य न ङित्वस्य प्रत्ययाप्रत्यये साधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारण रूपमाश्रीयते तत्रैव तत् । इत्याहुः तत्रेति पण्डिताः । तथाहि । तेतिक्ते इति किं निपात्यते । तिजेर्यङलुगन्तस्यात्मनेपदं निपात्यते । नैतदस्ति प्रयोजनं सिद्धमन्त्रात्मनेपदमनुदात्तडित आत्मनेपदमिति । नियमार्थं तर्हि भावष्यति । अत्रैव यङ्लुगन्तस्यात्मनेपदमन्यत्र न भवतीत्यत्रैतदेव ज्ञापकमिति भाष्यकारादिमतोद्भावनेन तदाकरविरुद्धमित्युक्तवन्तः । अदादित्वादि ॥ प्राञ्चस्तु हादित्वं मत्वा द्वित्वमाहुस्तदपाणिनीयमित्युपेक्षितम् ॥ द्वेः स्वरेपि ॥ अपिशब्दाद्धावन्तलोपे गुणवृद्धी न । तेन बेदिता मरीमृजिंतेत्यादि सिद्धम् ॥ प्रक्रियाक्रममाह । यङ्लुकि सतीति ॥
(पितः स्मो वेट् ) बोभवीतु - बोभोतु | अबोभवीत्-अबोभोत्, अबोभूताम्, अबो भवुः । बोभवांचकार । गुणं बाधित्वा नित्यत्वादुक् ॥ अबोभूवीत - अबोभीत्, अबोभूवुः | अबोभूवी:- अबोभोः । अबोभूवम् ॥ पापचीति - पापक्ति, पापक्तः, पापचति । अपापचीत्-अपापक-अपापग, अपापचुः । पापचांचकार । पापचिता । अपापाचीत्-अपापचीत् ॥ द्वेः स्वरेऽपि नोपधाया गुणः । बोभुजी - ति-बोभोक्ति, बोभुक्तः, बोभुजति । अबोभुजीत्-अबोभोंक । बोभोजिता । अबोभोजीत् ॥ वावदीति - वावत्ति | वावदति - वावन्तु । वावद्धि । वावद्यात् ॥ जाघटीति- जाघट्टि । जाघटीषि-ष्टुभिः ष्टुः जाघ