________________
आख्याते चुरादयः ] टीकाद्वयोपैता।
(१२५) (सुबोधिनी)-अथादन्ताः॥ वक्ष्यमाणेषु धातुषु अन्त्यावयवोकारो विवक्षितो न तूच्चारणार्थ इत्यर्थः॥ कथ वाक्यप्रबन्धे ॥ यत इत्यल्लोपस्य स्थानिवद्भावान्न वृद्धिः । कथयति ॥ ( तत्त्वदी० )-कथ ॥ अदन्तप्रयोजनमाह-अल्लोपेति ॥
( अय्लोपिनो नाङ्कार्यम्) अचकथत्॥ वर ईप्सायाम् । वरपति । अववरत् । गण संख्याने । गणयति । गणेः पूर्वस्य ईद्वापरे
औ । अजीगणत् ॥ स्तन गदी देवशब्दे । स्तनयति । गदयति । अतस्तनत् । अजगदत् ॥ पत गतौ । वा ज्यन्तः। पतयति । पततिं। पतांचकार । पतयांचकार । अपपतत् । अपतीत् । वादन्त इत्येके । पातयति । अपीपतत् ॥ रच प्रतियत्ने । रचयति ॥ सूत्र वेष्टने । सूत्रयति । असुसूत्रत् ॥ मूत्र प्रस्रवणे । मूत्रयति ॥ कल गती संख्याने च । कलयति ॥स्पृह ईप्सायां च । स्पृहयति । अपस्पृहत् ॥ भाम क्रोधे। भामयति । अबभामत् ॥ सूच पैशुन्ये । सूचयति ॥ ऊन परिहाणे । उनयति । अिनिमित्तः स्वरादेशो द्वित्वे कर्तव्ये स्थानिवत् । औननत्॥ अर्थङ् याचने । अर्थयते । आर्तथत ॥ संग्राम युद्धे । अससंग्रामत ॥ अन्ध दृष्टशुपघाते । अन्धयते । अन्धयति । आन्दधत् ॥ अङ्क अङ्ग पदें. लक्षणे च । आश्चकत । आञ्जगत् ॥ इति चुरादयः ॥
(सुबोधिनी)-अय्वृलोपिनो नाकार्यम्॥अश्च इश्च उश्च आ च तेषांसमाहारोऽवृ अम्वृणो लोपो अस्यास्तीति अय्वृलोपी तस्य अइउऋलोपिनो धातोरङ्निमित्तं कार्यं न स्यात्।तत्किम्।अङि लघौ ह्रस्वइत्युपधाहस्वत्वं पूर्वस्येत्वं च। लघोदीर्घ इति दीर्घः अकार्यम् ॥ पत गतौ इति ॥ वा यन्तः ॥वाऽदन्त इत्येकाआये पतयति । पतति । अनेकस्वरत्वात्कासादिप्रत्ययादित्याम्।पतांचकार। यत इत्यल्लोपः । अपतीत् । द्वितीये तु पातयति ! अपीपतत् ॥ स्तन गदी देवशब्दे ॥ स्तनादेर्व्यन्तादिनुरितीनुः। 'स्तनीयत्नुर्बलाहकः' । सप्रत्यये तु तिस्तनयिषति ॥ रच प्रतियत्ने ॥ प्रतियत्नो गुणाधानम् ॥ स्पृह ईप्सायाम् ॥ आप्तुमिच्छा ईप्सा|भाम क्रोधे॥ अबभामदित्यत्राल्लोपस्य स्थानिवत्त्वात् जौ अङि लघौ ह्रस्व इति ह्रस्वो न ॥ सूच पैशुन्ये ॥ पिशुनो दुर्जनस्तत्कर्म पैशुन्यम् । लुङि असुसूचत्॥ऊन परिहाणे॥ जिनिमित्तः स्वरादेशो द्वित्वे कर्तव्ये स्थानिवत्। जिप्रत्ययो निमित्तं यस्य ईदृशः स्वरस्थाने आदेशः स स्थानिना तुल्यः स्थानिवद्भवति द्वित्वे कर्तव्ये । स्वरादेःपर इत्यनेन नशब्दस्य द्वित्वम् । उत्तरखण्डे यत इति अल्लोपः । औननत् ॥ अर्थङ् याचने । कथादिषु उपधावृद्धिदीर्घपूर्वेत्वविरहेणभामप्रभृतीनामुपधाहस्वस्थ निषेधेन गृहमृगप्रभृतीनामुपधागुणस्य चव्यावर्तनेनादन्तत्वं सार्थकम्। इह त्वदन्तत्वे प्रागुक्तफलाभावा