________________
(१२४)
सिद्धान्तचन्द्रिका। [ आख्याते चुरादयः ] स्वार्थे औ ज्ञपादिभ्य इति मित्वनिषेधः। शामयते ॥ विद तनाख्यानानिवासेषु । "सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे । विन्दते विन्दति प्राप्तौ याब्लुग्नमेष्विदं क्रमात् ॥ १॥"
(तत्त्वदी० )-शामयत इति ॥ आकुस्मीयत्वादात् । निशामय तदुत्पत्तिमिति तु निवृत्तप्रेरणात् 'धातोः प्रेरणे' इति प्रेरणे औ बोध्यम् । धातूनामनेकार्थत्वाच्छ्रणे वृत्तिः ॥ ..!कुस्मनाम्नो वा ॥ कुस्मेति धातुः कुत्सितस्मयने॥ अथवा कुस्मेति नाम ततो निः । कुस्मयते । अचुकुस्मत ॥ कण निमीलने । काणयति । अचीकणत्-अचकाणत् ॥
(सुबोधिनी)-कुस्मनाम्नो वा॥ कुपूर्वात्स्मयतेर्डप्रत्यये टिलोपे समासे च कृते निष्पन्नं कुस्मेति नाम ॥ कण निमीलने । एकनेत्रनिमीलने एवायं शब्दस्वभावात् । काण्यादीनां कणरणभणेति सूत्रेण 'अङि लघौ ह्रस्वः' इति हो विकल्प्यते । अचीकणत्-अचकाणत् ॥
(तत्त्वदी०)-निमीलने ॥ स्वभावादेकनेत्रस्यैव ।। ८ (नवगण्यामुक्तेभ्यो हिंसार्थेभ्यः स्वार्थः ञिः ) हिसि हिंसायाम् । हिंसयति ॥ज्ञा नियोगे। आज्ञापयति । अजिज्ञपत् ॥ भू मिश्रीकरणचिन्तनयोः । भावयति । अबीभवत् ॥ लोकृ लोचू परिभाषणे ॥
(सुबोधिनी)-नवगण्यामुक्तेभ्यो हिंसार्थेभ्यः स्वा ञिः ॥ नवगण्यामुक्ता हिंसाः स्वाथै जिप्रत्ययं लभन्ते । घातयति हन्तीत्येतौ समानार्थी॥भू मिश्रीकरणचिन्तनयोः । भावयति मिश्रीकरोति चिन्तयति वेत्यर्थः।
न रितः॥ ऋदितःशासेश्चाङयुपधाया द्वस्वो न ॥ अलुलोकत् । अलुलोचत् ॥धून कम्पने ॥ __(सुबोधिनी)-न रितः॥ ऋ इद्यस्य स रित् तस्य । शासु अनुशिष्टौ ॥
(धूमीञोर्नुक औ) धूनयति । अदुधूनत् ॥ प्राञ् तर्पणे। प्राणयति । अपिप्राणत् ॥ __(सुबोधिनी)-धुप्रीञोर्नुक् औ॥अनयोर्नुगागमः स्या जिप्रत्यये ॥ धूज कम्पने । प्रीञ् तर्पणे। धूज़ धातुः स्वादौ ज्यादौ तुदादौ चुरादौ च। स्वादौ हस्वश्च । तथा च कविरहस्ये काव्ये ।“धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम्॥वायुर्विधूनयति चम्पक पुष्परेणून् यत्कानने धवातचन्दनमञ्जरीश्च१ - अथादन्ताः॥कथ वाक्यप्रबन्धने । यत इत्यल्लोपस्य स्थानिवत्त्वेन न वृद्धिः । कथयति ॥