________________
आख्याते भ्वादयः ]
टीकाद्वयोपेता ।
(६९)
(सुबोधिनी ) - वेो णादौ न संप्रसारणम् ॥ वेञः संप्रसारणं न स्यात् णादौ ॥ णादौ किम् । उतः । उतवान् । संध्यक्षराणामित्यात्वम् । आतो डौ इति पो डत्वम् । ववौ ॥
णब्
( वेञो वय वा
णादी ) उवाय ॥
( सुबोधिनी ) - वेञ वय् वा णादौ ॥ वेञो वय् वा स्यात् णादौ । अत उपधाया इति वृद्धिः । उवाय ॥
ग्रहां ङिति च ॥ ग्रहिज्यावयिव्यधिवष्टिवृश्चतिपृच्छतिविचतिभृज्जतीनां संप्रसारणं किति ङिति च ॥ वयो यस्य नेत्वम् । ऊयतुः ऊयुः । ऊवयिथ । ऊये ॥
( सुबोधिनी ) - ग्रहां ङिति च ॥ यजामित्यतः कितीति संप्रसारणमिति चानु वृत्तम् । एषां किति ङिति च सम्प्रसारणं स्यात् ॥ ग्रह उपादाने । ज्या वयोहानौ ! वेञ तन्तुसन्ताने । व्यध ताडने । वशू कान्तौ । ओत्रश्चू छेदने । प्रच्छ ज्ञीप्सायाम् । व्यच व्याजीकरणे । भ्रस्ज पाके । ङिति गृह्णाति । जिनाति । किति गृहीतः । जीनः । ङिति वयेरुदाहरणं न । किति तु यजामिति सम्प्रसारणं सिद्धं यजादिषु वेञः पाठात् । अत एव णवादाविति पूर्वसंप्रसारणमपि सिद्धम् । वेजो णादाविति संप्रसारणनिषेधस्तु वयो यस्येति निषेधारम्भान्न प्रवर्तते । तस्मात् ग्रहिज्यादिषु वयिग्रहणं स्पष्टार्थम् । वयो यस्य नेत्वम् । ग्रहामिति यकारस्य संप्रसारणे प्राप्ते निषेधः । लिटि वयो यस्य संप्रसारणं नेत्यर्थः । वयेस्ताद वभावात् थपि नित्यमिटू । उवयिथ । स्थानिवद्भावेन ञित्त्वादात्मनेपदम् । ऊये ॥
( वयो यस्य किति लिटि वो वा ) ऊवतुः । ऊवें । ऊयात् । वासीष्ट । अवासीत् । अवास्त ॥ व्येञ संवरणे ॥
( सुबोधिनी ) - वयो यस्य किति लिटि वो वा ॥ वयो यकारस्य वत्वं वा भवति किति लिटि ॥ ऊवे । वयादेशाभावे । ववे । आशिषि संप्रसारणे कृते । ऊयात् । संध्यक्षराणामित्यात्वे । वासीष्ट ॥
( व्येञो लिटि नात्वम् ) विव्याय । विव्ययिथ । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ॥ ह्वे स्पर्धायां शब्दे च । द्विरुक्तस्य ह्वयतेः संप्रसारणम् । जुहाव । जुहविथ- जुहोथ । जुहुवे । हूयात् । ह्रासीष्ट ॥
(सुबोधिनी ) - व्येञ लिटि नात्वम् ॥ व्येञ आत्वं न भवति लिटि । संध्यक्षराणामित्यस्यापवादः । लिटि किम् । व्याता । व्यांस्यति । व्येव्ये णपू इति स्थिते परत्वात् हसादिः शेषं बाधित्वा यस्य संप्रसारणम् । यजादीनां ग्रहादीनामित्युभयेषां ग्रहण