________________
( ७० )
सिद्धान्तचन्द्रिका |
आख्याते भ्वादयः ]
सामर्थ्याच्च । धातोर्नामिन इति वृद्धिः । विव्याय । नुधातोरिति यः । विव्यतुः । अत्त्यर्तिव्ययतीनामिति नित्यमिटू । विव्ययिथ । यमिरमिनमातामितीट्सकौ । अव्यासीत् । अव्यासिष्टाम् ॥ हे स्पर्द्धायां शब्दे च । शब्दे इति सामान्योक्तावपि संबोधनरूपः शब्द एवात्र गृह्यते । तथा च माघे - ' यन्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्वाहुना जुहुविरे मुहुरात्मवयः" इति कर्मणि प्रयोगः ॥ द्विरुक्तस्य यतः संप्रसारणम् । ह्वेञः पूर्वं द्वित्वम् । तेन उभयत्र संप्रसारण स्यात् ॥
( लिपिसि चिह्नयतीनां ङो लुङि वा आते ) अह्वत् । अह्वास्तअह्नत ॥ डुपचष् पाके । पचति । पेचिथ- पपक्थ | पेचे । अपाक्षीत्, अपाक्ताम्, अपाक्षुः ॥ षच समवाये । सेचे । असाचीत् । असचिष्ट ॥ शप आक्रोशे । शेपे । शप्ता । अशाप्सीत् । अशप्त ॥ हिक्क अव्यक्ते शब्दे । जिहिक्क । अहिक्कीत् ॥ अञ्चु गतौ याचने च । आनचे | आञ्चीत् ॥ रेट्ट परिभाषणे । रि टे । अरेटीत् ॥ चते चदे याचने च । चेते । अचतीत् । चंदे | अदीत् । अचेदिष्ट ॥ प्रोट पर्याप्तौ । पुप्रोथ । पुप्रोथे । अप्रोथीत् । अप्रोष्टि ॥ मिह मेह मेधाहिंसनयोः । मिमिदे | अमेदीत् । अमेदिष्ट । मिमेदे | अमेदीत् । अमेदिष्ट ॥ मेघृ संगमे च । मिमधे । मेधिता ॥ णिह पेट कुत्सासनिकर्षयोः । निनेदे । नेदिता ॥ शृधु मधु क्केदने । शर्द्धति | शशर्द्ध । शशृधतुः । शशृधे । मर्द्धति । मम्धे । अमद्धत् । अमद्विष्ट ॥ बुधिर् बोधे । बोधति । बोधते । अबुधत्- अबोधीत् । अबधिष्ट | उबुन्दिर् निशामने | बुन्दति । बुबुन्दे । अबुदत् । अबुन्दीत् ॥ अबुन्दिष्ट । वेणू गतिज्ञानचिन्तानिशामनवादित्रग्र• हणेषु । वेणते । विवेण । अवेणीत् । अवेणिष्ट । नान्तोऽप्ययम् । वेनति ॥ ची आदानसंवरणयोः । चीवति । चिचीव । चिचीवे । अचीवीत् । अचीविष्ट ॥ चायृ पूजानिशामनयोः । चायति ॥ चचाय । चचाये । अचायीत् । अचायिष्ट ॥ व्यय गतौ । व्ययति । वव्याय । वव्यये । अव्ययीत् । अव्ययिष्ट | दाट दाने । दाशति । दाशते । ददाश । ददाशे । अदाशीत् । सदाशिष्ट ॥ भ्रट भ्लेट गतौ । शति । भ्लेशति । भेषृभ्लेष्ट गतौ भये च भेषति । बिभेषे । बिभेष । बिभ्लेष | अभेषीत् । अभेषिष्ट ॥ अस गतिदी प्त्यादानेषु । असति । आस । आसे । आसीत् । आसिष्ट । अयं षान्तोऽपि । अषति ॥ चष भक्षणे । चचाष । चेषतुः । चेषे । अचानीत्-अन्नषीत् । अचषिष्ट । छष हिंसायाम्। छषति । छषते । चच्छाष । चच्छषे । अच्छाषीत् -अच्छषीत् ।