________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता।
(७१) अच्छषिष्ट ॥ झष आदानसंवरणयोः । झषति । जझाष । जझषे । अझाषीत्-अझषीत् । अइषिष्ट ॥ भ्रक्ष भ्लक्ष अदने । बभ्रक्षे । अभ्रक्षीत् । अभ्रक्षिष्ट ॥ द स्मृ दाने । दासते । ददासे ॥ माह माने । ममाह । ममाहिषे । अमाहीत् । अमाहिष्ट ॥ इत्युभयपदप्रक्रिया ॥
(सुबोधिनी)-लिपिसिनियतीनांडोलुङिवा आति॥एभ्यो ङप्रत्ययो नित्यं स्यात्परस्मैपदे लुङि । आत्मनेपदे लुाङ तु वा ॥ लिपि उपदेहे । षिच क्षरणे ।
अलिपत् । असिचत् ॥ आतोनपीत्यालोपः अह्वत् ॥ षच समवाये । समवायः संबन्धः। शप आक्रोशे। आक्रोनो विरुद्धाऽनुध्यानम्।अञ्चुगतो याचने च । नुगशामिति नुक् । आनश्चे । नो लोप:ति नलोपः।अच्यात् । अयमिदिदिति मते तु इदितो नलोपो नेति निषधात् ।अञ्च्यात् ॥ रेट्ट परिभाषणे । 'यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्' इत्यमरः ॥ऋदित्वात् नरित इत्युपधाया ह्रस्वो न । अरिरेटत् ॥ ग्रोथै पर्याप्तौ । पाप्तिः समाप्तिः । मेह मिहमेधाहिंसनयोः। थान्ताविमाविति स्वामी। धान्ताविति न्यासः ॥ मेधृ संगमे च । चात्पूर्वोक्तेऽर्थे । 'प्रजायै गृहमेधिनाम्' इत्यत्रगृहैदारैर्मेधंते संगच्छन्ते इति विग्रहः। णिन्प्रत्ययान्तः॥ णि णेह कुत्सासंनिकर्षयोः। संनिकर्षः सम्बन्धः॥ शृधु मृधु उन्दने । उन्दनं क्लेदनम् । आीभाव इत्यर्थः ।उदित्वात् क्त्वायां वेट । शद्धित्वा । शृद्धा ॥ बुधिर बोधने । बुध्यतेरेवानिटकारिकासु पाठादयं सेट। इरितो वेति वा ङः। अबुधत्-अबोधीत् । दीपजनेतीण्तु न पूर्वोत्तरसाहचर्येण देवादिकस्यैव सूत्रे ग्रहणात् । उबुन्दिर निशामने। निशामनं चाक्षुषं ज्ञानमित्यर्थः । वेणू गतिज्ञानचिन्ता शामनवादित्रग्रहणेषु । गत्यादयः पदार्थाः । वाद्यभाण्डस्य वादनार्थ ग्रहणं वादित्रग्रह गम् । वणिः वेणी वेणुरित्यादिरूपाण्यस्यैव धातोः ॥ चीवृ आदानादौ । चीवते । औगादिके रप्रत्यये चीवरं वस्त्रम् । इम्यन्तेति न वृद्धिः। अव्ययीत् ॥भेष भये च । चा. तौ ॥ इति सुबोधिन्यामुभयपदप्रक्रिया ॥ - (तत्त्वदी०)-शप आक्रोका इति ॥ आक्रोशो विरुद्धानुध्यानम् ॥ अचदीदिति ॥एदित्वान्न वृद्धिः । प्रोथ इत्यादीनाम् ऋदि मङ्युक्ताभावार्थम् ॥ अबोर्धादिति ॥ दीपजन इत्यात्मनेप दिभिः साहचर्यात्तथाभूतस्यैव ग्रहणात् ॥ उबुन्दिर् । उदित्वाद्वेट् । बुन्दित्वा बुत्त्वा । निशामनं चाक्षुषज्ञानम् । वेणू । वाद्यभा डस्य वादनापादनं वादिग्रहणम् ॥ इति तत्त्वदीपिकायामुभयपदप्रक्रिया ॥
ऋत जुगुप्सायां कृपा यां च ॥ (सुबोधिनी )-ऋत जुगुप्सायां कृपायां च ॥ 'अर्तनं चऋतीया च हृणीया च घृणार्थकाः' इति ॥ 'जुगुप्सा करुणे घृणे' इति चामरः॥
(ऋतरीय स्वार्थेऽपि तु वा ) ऋतीयते । ऋतीयेत । ऋतीय ताम् । आयत ।ऋतीयांचक्रे । ऋतीयिषीष्ट । ऋतीयिता ।