________________
( ७२ )
सिद्धान्तचन्द्रिका |
[ आख्याते अदादयः ]
ऋतीयिष्यते । आतयिष्यत । आनर्त । ऋत्यात् । अर्तिता । अर्तिष्यति । आर्तिष्यत् । आर्तीत् । आर्तीयिष्ट ॥ ॥ इति भ्वादिप्रक्रिया ॥
( सुबोधिनी ) - ऋतेरीयङ् स्वार्थेऽनपि तु वा ॥ ऋतिः सौत्रस्तस्मादीयड् स्यात् स्वार्थे अनपि तु वा । सधातुरिति धातुत्वम् । आदनुदात्तङित इत्यात्मनेपदम् । ऋतीयते । ईयङभावे परतोऽन्यदिति परस्मैपदम् ॥ नुगशामिति नुक् । आनर्त ॥ इति सुबोधिन्यां भ्वादिप्रक्रिया ॥
( तत्त्वदी ० ) - रामाश्रमेण विहिता याहि सिद्धान्तचन्द्रिका । तट्टीकायामगादेतद्भव्यं भ्वादिनिरूपणम् ॥
इति तत्त्वदीपिकायां स्वादिप्रक्रिया ॥ १ ॥
अथाऽदादयः ।
अद भक्षण || अदादेर्लुक् ॥ अदादेः परस्यापो लुक् ॥ अत्ति, अतः, अदन्ति । अत्सि, अत्थः, अत्थ । अनि, अद्वः, अनः। अधात् ॥
( सुबोधिनी ) - अद भक्षणे ॥ भक्षणं खादनम् || अदादेर्लुक् ॥ अप कर्तरीत्यतः अवित्यनुवृत्तम् । तच्च षष्ठचा विपरिणम्यते । अ आदिर्यस्य सोऽदादिस्तस्माददादेः ॥
( तत्त्वदी०) - अदादेर्लुक् ॥ अद आदिर्घस्य सोऽदादिम्तस्मात् । अप् कर्तरीत्यतोऽनुवृत्तमबिति षष्ठ्या विपरिणम्यते । चतुर्थी तु न तत्रापोऽभावात् । तद्गुणसंविज्ञानबहुव्रीहेरदेरप्यपो लुक् ॥ झसाद्धिः ॥ झसाद्धकाराच्च परस्य हेर्धिर्भवति ॥ अद्धि
अत्तात्, अत्तम्, अन्त ॥
(सुबोधिनी ) - झसाद्धिर्हेः ॥ झसात् ह् धिः होरीते पदच्छेदः । हस्य हो झभा इति धत्वे झवे जबा इति दत्वे हसात्परस्य झसस्येति दलोपः । अत्तादित्यत्र स्थानिव - द्भावेन तातङो हित्वेऽपि सकृद्गताविति न्यायेन धिरादेशो न ॥
(तत्त्वदी ) - झसाद्धिः ॥ झसात् हृधिः हेरिति छेदः । स्य हो शभा इति धत्वे झबे जबा इति दत्वे हसात्परस्य झसस्येति लोपेन सिद्धेः । इह लुप्तपञ्चमीकं पदमित्यभिप्रेत्याह-हकाराच्चेति ॥ अत्र स्थानिवद्भावेन तातङो हित्वेऽपि सकृद्गतावितिन्यायेन न विरादेशः ॥
अद्भुदादेरट् ॥ अत्तेरुदादेश्च परयोर्दिप्सिपोरडागमः ॥ आदत् । आदः ॥