________________
[ आख्याते अदादयः ] टीकाद्वयोपेता । (सुबोधिनी)-अद्रुदादेरट् ॥ अत्तेरुदादेश्च परयोदिपसिपोरडागमः स्यात् ।।
(सिसयोरदेघस्ल लिटि तु वा) जघास। गमा स्वरे । घसादेरिति षः। जक्षतुः। जघसिर । जक्षथुः । जक्ष । आद, आदतुः, आदुः। आदिथ । अत्ता। लदित्वात् ङः। अघसत् ॥ प्सा भक्षणे । प्साति। प्सायात् । प्सातु। अप्सात् ॥ __ (सुबोधिनी)-सिसयोरदेवस्ल लिटितु वा॥अदो घस्ल इत्यादेशः स्यात्। सिप्रत्यये सप्रत्यये च लिटि तु पा॥ सप्रत्यये जिघत्सति । जघास । गमामित्युपधालोपः । खसे चपा इति घस्य कः। घसादेरिति षत्वं कत्वं च । जक्षतुः। घसस्तादावभावात् थपि नित्यमिट् । जनिथ । पक्षे अत्यत्तिव्ययतीनामिति नित्यमिट् । आदिथ।।
(आदन्ताद्विषोऽन उम् वा) अप्सुः-अप्सान् । पप्सौ । आतोऽनपि पप्सुः । प्सायात्-सेयात् । अप्सासीत् ॥ मा माने । माति । अमात् । अमुः, अमान् । मौ ॥ मेयात् । अमासीत् ॥ या प्रापणे । याति । ययौ । अयासीत ॥ वा गतिगन्धनयोः। वाति । रा दान । राति ॥ ला दानग्रहणयोः। लाति । ललौ। अलासीत् ॥ श्रा पाके ।श्राति। श्रायान्, श्रेयात् ॥ दाप लवने । दाति । ददौ । दायात् । अदासीत् ॥ख्या प्रकथन । ख्याति । ख्यायात् । ख्यातु। अख्यात्। द्रा कुत्सायाम् । द्राति । द्रेयात् । दायात् । अद्रासीत् ॥ पा रक्षणे । पाति । पौ । पायात् । अपासीत् ॥भा दीप्तौ । भाति । बभौ ॥ ष्णा शौचे । नाति । स्यात्, स्नेयात् ॥ वश कान्तौ । वष्टि, उष्टः उशन्ति । वक्षि, उष्ठः, ष्ठ । वश्मि, उश्वः, उश्मः। उश्यात् । वष्ट, उष्टात्, उष्टाम्, उशन्तु । ढि, उष्टम्, उष्ट । वशानि, वशाव, वशाम।।
(सुबोधिनी)-आदन्ता विषोऽन उम् वा ॥ आदन्ताद्धातोषिश्च परस्यानो वा उस् स्यात्।उस्यालोप इत्यालोपः। अप्सुः । लिटि आतो ण डावित्यौ। पप्सौ । संयोगादेरादन्तस्यैकारो वा । सेयात्-प्सायात् । यमिरमिनमातामितीट्सकौ । अप्सासीत् ॥ मा माने । अकर्मकः । 'तनौ ममुस्तत्र न कैटभद्विषः' इति माघे । उपसर्गवशेनार्थान्तरे सकर्मकः। 'उद परिमाति मुष्टिना' इति नैषधे॥ या प्रापणे।प्रापणामह गतिः॥ रा दाने ॥लाआदाने आदानं ग्रहणम्।दावपि दाने इति चन्द्रः।ख्या प्रकथने। चतुर्वेवास्य प्रयोग इति भाष्यम्॥द्रा कुत्सायाम् । पा रक्षणे । भा दीप्तौ। ष्णा शौचे। वश कान्तौ। कान्तिरिच्छा। उशषति षत्वम् । वष्टि । ग्रहामिति संप्रसारणम् । उष्टः । उश्यात् । वष्टु-उष्टात्, उष्टाम्, रशन्तु । हौ संप्रसारणम् । छशषेति षत्वम् । झसादिर्हेरिति धः । षो ड इति डत्वम् । ष्टुभिः ष्टुरिति ढत्वम् । उढि ॥