________________
सिद्धान्तचन्द्रिका |
[ आख्याते अदादयः ]
दिस्योर्हसात् ॥ हसात्परयोर्दिप्सिपोर्लोपः ॥ अवटू - अवड्, औष्टाम्, औशन् । अवट्-अवड्, औष्टम्, और । अवशम्, औश्व, औश्म । उवाश, ऊशतुः । उवशिथ । उयात् । वशिता । अवाशीत् । अवशीत् ॥ हन हिंसागत्योः । हन्ति ॥
(७४)
( सुबोधिनी) - दिस्योर्हसात् ॥ दिप्सहचरितस्य सेर्य णान्नेह | असि ॥ ननु संयोगान्तलोपेनैव गतार्थमिदम् । सत्यम् । सभिन्नस्य रान्नेति सूत्रमनेन ज्ञाप्यते । तेन अभिभर्भवानित्यादौ संयोगान्तलोपाभावादस्यारम्भः । अवटू, औष्टाम्, औशन् । उवाश, ऊशतुः । उश्यात् । वशिता । वशिष्यति । अवशिष्यत् । अतो हसादेोरिति वा वृद्धिः । अवाशीत्-अवशीत् ॥
(तत्त्वदी ० ) - दिस्योर्हसात् ॥ दिश्च सिश्च दिसी तयोः । नत्र दिसाहचर्यालङ एव सिपू गृह्यते न त्वन्यः । तेनात्सीदित्यादौ नातिप्रसंग: । संयोगान्तलोपेनैव निद्धे सभिन्नस्य रान्नेतिज्ञापयितुमस्यारम्भः ॥ सिग्रहणं तूत्तरार्थम् ॥ ननु अरोदीदरोददित्यत्रातिप्रसंग : दागमास्तद्गुणी भूतास्तदुग्रहणेन गृह्यन्त इति न्यायादिति चेन्न । तेन विभक्तित्वप्रत्ययत्वयोरेव ग्रहणान्न तु दिव्वसित्वयोः ॥
लोपस्त्वनुदात्ततनाम् | अनुदात्तानां तनादीनां वनतेश्च समस्य लोपो भवति झसे क्ङिति हकारे च ॥ हतः, घ्नन्ति । हन्यात् । हन्तुहतात्, हताम्, घ्नन्तु ॥
(सुबोधिनी) - लोपस्त्वनुदात्ततनाम्। यमिरमिनमिर्गामहनिमन्यतयोऽनुदात्ताः षट् । तनु पणु क्षणु क्षिणु ऋणु तृणु घुणु वनु मनु इति तनोत्य दयो नव । अनुदात्तेति षष्ठीकं पदम् । तुशब्देन समान्तानां ग्रहणम् । वन संभक्तौ वनति । इह हवत्योनेंडिति इनिषेधात् किति झसे नस्य लोपः ॥ झसे किम् । गम्यते ॥ क्ङितीति किम्, गन्ता । 'गमां स्वरे' इत्युपधालोपः । 'हनो ने' इति वः । घ्नन्ति ॥
(तत्त्वदी ० ) -- लोपस्त्वनुदात्ततनाम्॥ यमिरमिनमिगभिः निमन्यतयोऽनुदात्ताः । तनु णु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु इति तनोत्यादयः । अनुदात्तेति लुप्तषः किं पृथक्पदम् । तु शब्दोऽपरलाभार्थ इत्याह--तनादीनामिति ॥ लुप्तषष्ठीनिर्दिष्टन्यायेनान्त्यलोपत्याशयेनाह ञमस्येति॥ अन्यथा जम्यादिष्वनन्त्यस्यापि ञमस्य संभवालोपः स्यात् ॥
जह्येधिशाधि ॥ हन्तेर्जहिरस्तेरेधि शास्तेः शाधिर्निपात्यते हिविषये ॥ जहि । हनानि । अहन्, अहताम्, अघ्नन् ।
(सुबोधिनी) - जह्येधिशाधि ॥ हिसहितानां हनासशासीनां यथासंख्यमेते स्युः॥ (पूर्वार्द्धन्तेर्हस्य घः ) जघान, जघ्नतुः । जघ्नुः । घानथ, जघन्थ ॥ (सुबोधिनी) - पूर्वाद्धन्तेर्हस्य घः ॥ द्वित्वे सति पूर्वरूपान् परस्य हन्तेर्हस्य घत्वं. भवति । जघनिथ ॥