________________
[ आख्याते अदादयः ] टीकाद्वयोपेता ।
(हनो लुलिङोवधो लुङयाति वा ) वध्यात्, हनिष्यति॥ (सुबोधिनी)-हनो लुइलिश्रोर्वधो लुङयाति वा ॥ लुङ्लिङोः परतो हन्तेर्वधः स्यात् आत्मनेपदे लुङि तु वा ॥ वध्यात् । हनृत इतीट् । हानष्यात ॥
(तत्त्वदी०)-हनइति।लुङ्साहचर्यादनब्बिषय एव लिङ् गृह्यते । तेन विधौ नातिप्रसङ्गः । यत्तु विधावतिप्रसंगवारणाय किदिति लिङो विशेषणमुपन्यस्तं तद्रभसात् । वृश्चिकभियेति न्यायेन कर्माण पक्षे वाधषीप्टेत्यत्रातिव्याप्तेरनिवारणात् ॥ . (जनिवध्योर्न वृद्धिः) अवधीत् ॥ यु मिश्रणे अमिश्रणे च ॥
(सुबोधिनी)-जनिवध्योर्न वृद्धिः॥ अनयोर्वृद्धिर्न भवति । जन जनने। जनी प्रादुर्भावे च । वध हिंसायाम् । वधादेशोऽदन्तः । तेनाद्योच्चारणेऽनेकस्वरत्वात् नैकस्वरादितीशनिषेधो न प्रवर्तते । यत इत्यल्लोपः। अवधीत् ॥
ओरौ॥ उकारस्याऽद्विरुक्तस्याकारो भवत्यबादौ पिति॥ यौति, युतः, युवन्ति । यौषि । यौमि, युवः । युयात् । यौतु । युहि । अयोत् । अयौः। युयाव । युयविथ । यूयात् । यविता । अयावीत् ॥ तु गतिवृद्धिहिंसासु ॥ __(सुबोधिनी)-ओरी ॥ आद्विरुक्तस्य धातोरुत औः स्यात् पिति तकारसकारईकारादौ लुग्विविषये । उतः किम् । एति । एष । लुकि किम्।सुनोति । पिति किम्, रुतः। अद्विरुक्तस्य किम् । योयोत । नुधातोरित्युत् । युवन्ति । ये दीर्घः स्यात् । यूयात् । धातार्नामिन इति वृद्धिः । अयावीत् ॥ तु इति सौत्रो धातुः गतिवृद्धिहिं. सासु । अयं च लुग्विकरण इति स्मरन्ति ॥ _(तत्त्वदी० )-ओरौ इति ॥ विदो नवानामित्यतो वेत्यनुवर्त्य व्यवस्थयाऽद्विरुक्तस्येति बोध्यम् । तेन जुहोतीत्यादौ नातिप्रसंगः ॥
(तुरुस्तुभ्योऽद्विरुक्तभ्यो हसादीनां चर्गुणामीड्डा ) तोति-तवीति, तुतः-तुवीतः, तुवन्ति । तौषि-तवीषि, तुथ:--तुवीथः, तुथ, तुवीथ । तौमि-तवीमि । तुयात्-तुवीयात् । तौतु-तवीतु । तुकीतात्-तुवीताद्, तुतात्-तुताद् । तुहि-तुवीहि । अतोत्-अतवीत् । तुताव । तोता । तोष्यात । अतौषीत् ॥ रु शब्दे । रौतिरवीति । रुरविथ । अरावीत् ॥ णु स्तुतो । नोति, नुतः । नुनाव । नुनविथ । अनावीत् ॥ टुक्षु शब्दे । क्षति । क्षुयात् । क्षातु। अक्षौत् । चुक्षविथ ॥क्षविता । अक्षावीत् ॥ क्ष्णु तेजने । णोति। चुक्ष्णविथ । अक्षणावीत् । ष्णु प्रस्रवणे। नौति । सुष्णविथ । अस्त्रावीत् ॥ छु अभिगमने । द्यौति । दुद्यविथ-दुद्यौथ । अद्यौषीत् ॥