________________
(७६)
सिद्धान्तचन्द्रिका |
[ आख्याते अदादयः ]
षु प्रसवैर्श्वययोः । सौति । सुषाव । सुषविथ - सुषोथ । असौषीत् ॥ कुशब्दे | कौति | चुकविथ - चुकोथ । अकौषीत ॥ वी गतिव्याप्तिप्रजननकान्त्यसनखादनेषु । वेति, वीतः, वियन्ति । | वे वीहि । अवेत्, अवियन् । विवयिथ - विवेथ । अवैषीत् ॥ एति, ईतः । ईयात् । ऐतू, ऐयन् । आयम् । अयांचकार । एता । ऐषीत् ॥ इण गतौ । एति, इतः ॥
( सुबोधिनी ) - तुरुस्तुभ्योऽद्विरुक्तेभ्यो हसादीनां चतुर्णामी वा ॥ अद्विरुक्तेभ्य एभ्यः परेषां हसादिचतुर्णामीडागमो वा भवति । क्ष्णु तेजने । तेजनं तीक्ष्णीकरणम् । ष्णु प्रस्रवणे । प्रस्रवणमुत्कण्ठा । षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । वी गतिव्याप्तिप्रजननकान्त्यसनखादनेषु । प्रजननं- गर्भग्रहणम् । असनं - क्षेपणम् । अडागमामाग् नु धातोरिती । अवियन् । नित्यत्वादडागमे कृते सत्यनेकस्वरत्वाद्य इति केचित् । अव्यन् । अत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते । तथा च प्रयुञ्जते । 'नहि तरणिरुदीते दिपराधीनवृत्तिः' इति । व्याख्यातं च मनोरमायाम् । कर्मव्यतिहारे आत् । न च गतिहिंसार्थेत्यान्निषेधः शङ्कयः । उत्पूर्वस्याविर्भावार्थत्वादिति । इण गतौ ॥
(तत्त्वदी ० ) - तुरुस्तुभ्य इति । यत्तु प्राचा युरुणुस्तुभ्य युक्तं यच्च वासुदेवेन व्याख्यातम् । यु मिश्रणे । रु शब्दे । णु स्तुतौ । ष्टुञ् स्तुतौ । एभ्यः पिति त्स्मि ईकारो वक्तव्य इति तत्सर्वं प्रामादिकम् । णु एतयोरत्राग्रहणस्य सर्वसंमतत्वात् । पितिस्मीति निमित्तोपादानमप्ययुतम् रुवीत इत्यादावव्याप्तेः ॥
1
( इणः क्ङिति स्वरे यः ) यन्ति । एषि । इयात् । एतु, यन्तु । इहि । आयम्, ऐव, ऐम, । इयाय ॥
(सुबोधिनी) - इणः क्ङिति स्वरे यः ॥ इणो यत्वं भवति किति ङिति च स्वरे । यन्ति । लिटि वृद्धौ च कृतायाम् असवर्णे स्वरे इतीय इयाय ॥
अगा
( इणः किति णादौ पूर्वस्य दीर्घः ) ईयतुः, ईयुः । इययिथइयेथ । ईयात् । एता । दादेः पे । इणः सिलोपे गा । अगात्, ताम्, अगुः ॥ इक् स्मरणे । इङिकावध्युपसर्गतो न व्यभिचरतः । अध्येति, अधीतः, अधियन्ति । अध्यैत्-अध्यैद् ॥
(सुबोधिनी ) - इणः किति णादी पूर्वस्य दीर्घः । इणः पूर्वरूपस्य दीर्घो भवति किति लिटि । आशिषि ये इति दीर्घः । ईयात् । इक स्मरणे । ककार इहेण्वदिक इति विशेषणार्थः । अयमधिपूर्वः । तथा च भट्टिः 'ससीतयो राघवयोरधीयन् ।' स्मरन्नित्यर्थः । राघवयोरित्यत्र कर्मणि षष्ठी । इङि काविति । इङिकावध्युपसर्गे विना प्रयोगं नाईत इत्यर्थः ॥