________________
[ आख्याते अदादयः] टीकाद्वयोपेता।
(७७) (इण्वदिकः) अधीयाय । अधीयतुः । अधीययिथ--अधीयेथ । अधीयिव । अधीयात् । अध्येता। अध्यगात् ॥ विद ज्ञाने। वेत्ति, वित्तः, विदन्ति । वेत्सि, वित्थः, वित्थ । वेद्मि॥
( सुबोधिनी)-इण्वदिकः ॥ इणो यत् कार्यमुक्तं तदिकोऽपि भवति । कार्यातिदशोऽयम् ॥ विद ज्ञाने । ज्ञप्तिर्ज्ञानम् ॥
विदो नवानां त्यादीनां णबादिर्नवको वा ॥ विदः परेषां त्या: दीनां नवानां णबादिर्नवको वा ॥ वेद, विदतुः विदुः। वेत्थ, विदथुः, विद । वेद, विद्व, विद्म । विद्यात् । वेत्तु । विद्धि ॥
(सुबोधिनी)-विदो नवानात्यादीनांणबादिर्नवको वा॥वर्तमानार्थकणादियोगे धातोदित्वं न उक्तार्थणादियोगे इत्युक्तत्वात् । झसादिति धिः। विद्धि। (तत्त्वदी० )-वेदेति ॥ अन तरस्येति न्यायादुक्तार्थणादियोग एव द्वित्वं नान्यत्र ॥ (वेत्तेलेंॉट्याम्गुणाभावः करोत्यनुप्रयोगश्च वा) (सुबोधिनी) वेत्तेर्लोट्याम् गुणाभावः करोत्यनुप्रयोगश्च वावेत्तेराम्य प्रत्ययो गुणनिषेधः करोतेरनुप्रयोगश्च वा स्याल्लोटि ॥
तनादेरुप् ॥ विदांकरोतु ॥
(सुबोधिनी)-तनादेरुप् ॥ तन आदिर्यस्य स तनादिस्तस्मात्तनादेरुप् प्रत्ययः स्यात् कर्तरि चतुषु । नूप इति गुणे कृते विदांकरोतु ॥
डित्यदुः॥ कृञोऽत उत् डिति ॥ विदांकुरुतात् । विदांकुर्वन्तु । अवेत्-अवेद् । स्याविदः । अविदुः॥
(सुबोधिनी)-डित्यदुः कृतो ये इत्यतः कृज इत्यनुवृत्तम् । लङि दिस्योरिति दिसिपोर्लोप: स्यात् । अवेत् स्याविद इत्यन उस अविदुः॥
(तत्त्वदी०)-डित्यदुः॥ ति अत् उरिति च्छेदः । कृञो ये इत्यतः कृञ् इत्यनुवर्तते । विदांकुरुतादित्यत्र तपरत्वादुप्रत्ययनिमित्तो गुणो न । कुर्वन्त्वित्यत्र तु संज्ञापूर्वकत्वेनानित्यत्वात् बोर्विहस इति दी? न । तपरः किम् । अकारि । तपरकरणं सुखमुखोचारणार्थमिति वासुदेवः। तन्न । ङित्यउरिति पाठेऽपि सुखोच्चारस्याव्याहतत्वात् ॥ .
दः॥ पदान्ते दस्यगे वा सिपि ॥ अवेः-अवेद-अवेत् ॥ (सुबोधिनी)-दः ॥ पदन्ते धातोर्दस्य रो वा स्यात् सिपि ॥ सिपि किम् । अवेद् । पदान्ते किम् । वेत्सि ॥
(तत्त्वदी० )दः इति ॥अत्र रोऽरात्रिष्वित्यतो मण्डूकप्लुत्या र इत्यनुवर्तते अजर्घा इत्यादि. सिद्धयर्थम् । स इति त्वव्यवहितमणि न । दोषादिकल्पने च गौरवम् । यदि दोषादिकल्पने व्यवहितानुवृत्त्या गौरवं समानं तदा सानुवृत्तिरप्यस्तु ।