________________
(७८)
सिद्धान्तचन्द्रिका। [आख्याते अदादयः ] (आमि विदेन गुणः) विदांचकार । अवेत् ॥ अस भुवि । अस्ति ॥ __ (सुबोधिनी)-आमि विदेर्न गुणः॥ वेत्तेर्गुणो न यात् आमि । विददरिद्रेत्याम् । विदांचकार । अस भुवि । सत्तायामित्यर्थः ॥
नमसोऽस्य ॥ प्रत्ययस्य नमोऽस्तेश्चाकारस्य लोपो डिति । स्तः, सन्ति ॥ - (सुबोधिनी)-नमसोऽस्य ॥ नम् च अस् चानयोः समाहारो नमस् तस्य । नमिति प्रत्ययो गृह्यते प्रतिपदोक्तत्वात् । न धातुः लाक्षणिकत्वात् । तस्य हि आदेः ष्णः स्त्र इति कृते नमिति रूपम् । अस्तेरीडित्यतोऽस्तेरित्यनुवृत्त्याऽस्तेरित्यस्य योऽस् तस्येति व्याख्यानात् अस्प्रत्ययस्य अस दीप्तौ, असु क्षेपणे इत्यादीनां च ग्रहणं न भवति । ङित्यदुरित्यतो कितीति ओव्मोरित्यतो लोप इति वानुवृत्तम् ॥
(तत्त्वदी०) नमसोऽस्य ॥ नम् च अस् चानयोः समाहार नमस् तस्य । नमधातोरादेः ष्णः स्न इति सूत्रेण नत्वकरणालाक्षणिकत्वेनाग्रहात् । अस्तेरीडित्यतोऽ तेरित्यनुवृत्तरस्तेरिति रूपस्य प्रकृतिभूतो योऽसू तस्येति व्याख्येयम् । तेनास्प्रत्ययः । अस्दीप्तौ, असु क्षेपणे, इत्यादीनां न ग्रहणम् । यत्तु वासुदेवेन नन्वसा धातुना साहचर्यान्नमपि धातुरेव गृ पताम् इत्युक्तम् तन्न अस्प्रत्ययस्यापि संभवेन धातोर्ग्रहणमिति निर्णयाभावात् ॥
सि सः॥ अस्तेः सस्य लोपो भवति सादौ ॥ असि, स्थः, स्थ । अस्मि, स्वः, स्मः । स्यात् । अस्तु-स्तात, सन्त । जह्यधिशाधि । एधि । असानि॥
(सुबोधिनी)-सि सः॥ नमसोऽस्येत्यतोऽस्ग्रहणमप्यनुवृत्तम् ॥ ज धीति एध्यादेशः । एधि॥
(तत्त्वदी०)-सि सः॥ अत्र नमः सकारासंभवादस ऐवानुवृ त्तेः ॥ - अस्तेरीट् ॥ विद्यमानादस्तेः रुदादश्च परसोदिप्सिपोरीट् ॥ आसीत्, आस्ताम् । आसीः। आसम् ॥
(सुबोधिनी )-अस्तेरीट् ॥ दिस्योर्हसादित्यतो दिस्यो रेत्यनुवृत्तम् ।अस्तेरिति तु तन्त्रादिना व्याख्येयम् । तेन विद्यमानादस्तेरिति लभ्यते॥द्यमानात्किम् । अस्तेभूरित्यादेशेऽभूदित्यादौ मा भूत्। स्थानिवद्भावेन नमसोऽस्येत्या ओठैवेत्यतो वानुवृत्त्या व्यवस्थया लोपाभावे स्वरादित्वात् द्वितीयोऽट आस्ताम् ॥ . (तत्त्वदी०)-अस्तेरीट् ॥ अत्रानुदादेरिति सूत्रात् रुदादेरित्येकदेशोऽनुवर्तते । न त्वदिति। कचिदेकदेशोऽनुवर्तत इति स्वीकारात् । अस्तेरित्यस्य तन्त्रादिना लब्धं विद्यमानादिति । तेन भ्वादेशे