________________
[ आख्याते अदाददयः ]
टीकाइयोपेता 1.
अभूदित्यादौ नातिप्रसंग: ॥ आस्तामिति ॥ अत्र ओव्यत्यतो वानुवृत्त्या लोपाभावे द्वितीयोsट् | उपदेशस्वरादि ते तु न अगादित्यत्रातिव्याप्तेः ॥
( अस्तेरनपि भूः ) बभूव इत्यादि सिद्धम् ॥ मृजू शुद्धौ ॥ (सुबोधिनी) - अस्तेरनपि भूः ॥ अस्तेर्भूरादेशः स्यादचतुर्षु । मृजू शुद्धौ । अयं न षित् भिदादिपाठसामर्थ्यात् ॥
(मृजेर्वृद्धिः क्ङिति स्वरे वा ) मार्ष्टि, मृष्टः, मृजन्ति मार्जन्ति । माक्षिं । मृज्यात् । मार्छु । मृढि । मार्जानि । अमार्टू - अमार्ड | ममार्ज, ममृजतुः - ममार्जतुः । ममार्जिथ- ममाष्ठ I मृज्यात् । मार्जिता, माष्टा ॥ अमार्जीत् ॥ वच परिभाषणे 1 वक्त नहि वचिरन्तिपरः । वक्षि, वक्थः । वच्मि । वच्यात् । वक्तु वग्धि । अवक- अवग् । उवाच, ऊचतुः । उवचिथ उवक्थ । उच्यात् ॥ वक्ता । वक्ष्यति । अवक्ष्यत् अस्यतिवक्तीति ङः ॥
(सुबोधिनी ) - मृजेर्वृद्धिः क्ङिति स्वरे वा ॥ गुणापवादः । अक्ङिति प्रत्यये परे मृजेर्वृद्धिर्भवति ङ्किति परे वेष्यते । छशषेति षत्वम् । माष्टिं ॥ झसादिति हेर्धिः ॥ छशषेति षत्वम् ष्टुत्वम् । झबे जवा इति षस्य डः स्थानैकत्वात् । मृढि।दिस्योरिति दिसिपोर्लोपः । अमार्टू- अमाई । लुङि इडभावे षत्वकत्वे । अमाक्षत् । झसादिति सिलोपः । अमाष्टम् । स्थाविद : त्यन उस् । अमाक्षुः । वच परिभाषणे । अयमन्तिपरो न प्रयुज्यते इत्येके । बहुवचनपरे न प्रयुज्यते इत्यपरे । झसादिति हेधिः । चोः कुरिति कः । झवे जबा इति गः । वग्धि ।। दिस्योरिति दिसिपोर्लोपः । अवक् । णबादौ पूर्वस्योत संप्रसारणम् । अत उपधाया इति वृद्धिः । उवाच । अस्यतिवक्तिख्यातिभ्य इति ङः ॥
( तत्त्वदी० ) - नहि वचिरिति ॥ बहुवचनपर इत्येके । अन्तमात्रपर इत्यन्ये ॥ (ङे वचेरुम् ) अवोचत् अवोचताम् अवोचन् ॥ रुदिर् अश्रुविमोचने ॥
( ७९ )
व्यवस्थया
(सुबोधिनी ) - ङे वचेरुम् || वचेरुमागमः स्यात् ङप्रत्यये । अवोचत् ॥ रुर्दिर् अश्रुविमोचने । अश्रुविमोचनं रो नम् ॥
रुदादेश्चतुर्णां सादेः ।। रुदादेः परस्य तिवादिचतुर्णां मध्ये हकारवसादेः प्रत्ययस्येट् ॥ रोदिति, रुदितः, रुदन्ति । रोदिषि रुदिथः, रुदिथ । रुद्यात् । रोदितु । रुदिहि | अरोदीत् -- अरोदत् । अरुदिताम्, अरुदन् । इरितो वा अरुदत् ॥ ञिष्वप् शये । स्वपिति ।