________________
(८०)
सिद्धान्तचन्द्रिका। [ आख्याते अदादयः ] स्वप्यात् । स्वपितु । अस्वपीत्-अस्वपत् । सुष्वाप । स्वप्ता । अस्वाप्सीत् ॥ श्वस् प्राणने । श्वसिति । श्वस्यात् । श्वसितु । अश्वसत् । अश्वसीत् । शश्वास ॥ अन प्राणने । अनिति ॥
(सुबोधिनी)-रुदादेश्चतुर्णा ह्रसादेः॥ हू च सश्च द्वसौ तौ आदी यस्य स ह्वसादिस्तस्य ॥“रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा। जक्षितिश्चेति विज्ञेयो रुदादिः पञ्चको गणः ॥” ह्रसादेः किम् । रुदन्ति ॥ चतुर्णा किम् । स्वप्ता । हो परत्वादिटि कृते धिरांदेशो न । रुदिहि । लुङि इरित इति वा ङः । अरुदत् । णबादौ पूर्वस्येति संप्रसारणम् । यजामिति संप्रसारणम् । सुषुपतुः। अत उपधाया इति वृद्धी अस्वाप्सीत् । हुम्यन्तेति न वृद्धिः । अश्वनीत् ॥
(तत्त्वदी०)-रुदादेरिति ॥ ह च वसश्च हसौ तौ भादी यस्य स तथा । “रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा । जक्षितिश्चेति विज्ञेयो रुदादिः पञ्चको गणः ॥ १ ॥ अरोदीदिति । अद्रुदादेरडित्यट् । अस्तेरीडिति पक्षे ईट् ॥
(प्रादे रेफादनितेर्नस्य णत्वम् ) प्रापिति । प्राणिहि। आनीत् । आनत् । आन, आनतुः। अन्यात् । अनिता । आनीत् ॥ जक्ष भक्ष हसनयोः । जक्षिति, जक्षितः॥
(सुबोधिनी)-प्रादे रेफादनितेर्नस्य णत्वम् ॥ प्रादिस्थरकारात्परस्यादेर्नस्य णत्वं स्यात् ॥
(जक्षादेरन्तोऽदन उस्) जक्षजागृदा रद्राशास्चकामृभ्यः परस्यान्तोऽत् अन उस् च ॥ जक्षति । जक्ष्यात । जक्षितु । जक्षिहि । अजक्षीत् । अजक्षत् । जक्षिता ॥ इति रुदादयः । जागृ निद्राक्षये । जागर्ति, जागृतः, जाग्रति । जागृगात । जागर्तु । अजागः, अजागृताम् ॥
(सुबोधिनी)जक्षादेरन्तोऽदन उम् ॥ जक्षप्रभृतयः सप्त । उक्तं च । “जक्षजागृदरिद्रातिचकास्तिशास्तयस्तथा । दीधीङ वेवीलच विज्ञेयो जक्षादिः सप्तको गणः ॥ १॥" दिस्योरिति दिसिपोर्लोपः । अजागः ॥
(उसि गुणः) अजागरुः । जजागार ॥
(सुबोधिनी)-उसि गुणः॥ नाम्यन्तस्य धातो णः स्यादनादेशे उसि परे । विददरिद्रेति वाम् । जागरांचकार ॥ __ (जागर्तेर्वीण्णङिद्भिन्नेषु गुणः) जजागरतुः, जजागरुः । जजागरिथ । जागराञ्चकार । जागर्यात् । जागरिता । जागरिष्यति । अजगरिष्यत् । अजागरीत् ॥ दरिद्रा दुर्गतौ । दरिद्राति ॥