________________
[ आख्याते अदादयः ] टीकाद्वयोपेता।
(८१) (सुबोधिनी)-जागर्तेर्वीण्णबङिद्भित्रेषु गुणः ॥ जागतेर्विइण्णवङिद्भिन्नमत्यये गुणः स्यात् । विइण्णङिद्भयोऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । विशब्देन वादिः प्रत्ययो गृह्यते। इकारस्तु उच्चारणार्थः । कसुप्रत्यये जजागृवान्, जजागृवांसौ इति । इणि अजागारि । णाप जजागार । डिति जागृतः । वृद्धिविषये वुणि जागरकः घजि जागरः । जिप्रत्यये जागरयति न चैतेषु गुणे कृतेऽप्यत उपधाया इति वृद्धिः स्यादीत वाच्यम् । गुणविधेरिण्णप्रतिषेधस्य चानर्थक्यापत्तेः । लुङि जागृ इ स् ईदित्यत्र रत्वं प्राप्तं तद्गुणो बाधते । तं णित्पे इति सेर्णित्वाद्धातो मिन इति वृद्धिबाधते । तां जागतेरिति गुणो बाधते । तत्र गुणे कृते अतो हसादोरीत विकल्पं बाधित्वा लूान्तस्येति वृद्धिः प्राप्ता हुम्यन्तति सूत्रेण निषिध्यते ॥ अजागरीत् ॥ दरिद्रा दुर्गतौ ॥
दरिद्रातेरिदालोपश्च डिति ॥ दरिद्रातरातो लोपो डिति स्वरे इकारश्च डिात हसे ॥ दरिद्रितः, दरिद्रति । दरिद्रियात् । दरिद्रातु । अदरिद्रात्, अदरिद्रिताम्, अदरिद्रुः॥ (सुबोधिनी)-दरिद्रातेरिदालोपश्च ङिति॥ हसे इति स्वरे इति चानुवृत्तम् ।। (तत्त्वदी०)-अदरिद्रुरिति जक्षादेरित्यन उस् दरिद्रादेरिदालोप इत्यनेन परत्वादालोप आदन्तत्वाभावादादन्ताद्विष इत्यादिलक्षणविकल्पाप्रवृत्तिः ॥
(दरिद्रातेरनप्यालोपः सौ वा णवुणनिट्रसयुटूसु न)ददरिद्रौ, ददरिद्रतुः । दरिद्रांचकार । दरिद्रयात् । दरिद्रिता । अदरिद्रीत्, अदरिद्रिष्टाम् । अदरिद्रासीत् ॥/ शासु अनुशिष्टौ शास्ति । __(सुबोधिनी)-दरिद्रातेरनप्यालोपः सौ वा णवुणनिट्सयुटसु न ॥ दरिद्रातरातो लोपः स्यात् अचतुर्पु सिप्रत्यये तु वा णवादिषु परेषु न । वुणि दरिद्रायकः ॥ अनिटि सप्रत्यये दिदरिद्रासति ॥ युटि दरिद्राणः । लाङ आलोपाभावे यमिरमीतीट्सकौ।अदरिद्रासीत् ।अदरिद्रासिष्टाम्।शासु अनुशिष्टौ।अनुशिष्टिरनुशासनम् ॥
शासरिः॥ शासेरातो हसे क्डिति डे च इद्भवति। घसादेः षः। शिष्टः, शासति । शास्सि,शिष्ठः,शिष्ठ । शास्मि । शिष्यात्।शास्तु । जह्येधिशाधि । शाधि ॥ दिपि ॥ धातोः सस्य तः स्यादिपि ॥ अशाद्-अशात्, अशिष्टाम्, अशासुः ॥ सिपि वा ॥ धातोः सस्य वा तः स्यात्सिपि ॥ अशा:-अशात्-अशाद् । शशास । शिष्यात् । शासिता । अशासिष्यत् । अशिषत् ॥चकासृ दीप्तौ । चकास्ति, चकास्तः, चकासति । झसाद्धिहेः । धे सलोपः। चकाधि ।