________________
( ८२ )
सिद्धान्तचन्द्रिका |
[ आख्याते अदादयः ]
अचकात् । अचकासुः I अचका:- अचकात -अचकाद् । चकासांचकार । अचकासीत् ॥ इति परस्मैपदम् ॥
(सुबोधिनी) - शासेरिः ॥ शास उपधाया इत् स्यात् त्यये हसादौ क्ङिति । च । ङस्यानुवर्तनात् आङः शासु इच्छायामित्यस्य तु न ग्रहम् । अर्तिसर्तिसाहचयत्परस्मैपदिन एव शासेङविधानात् । तेन पे एवेत्वम् । नेह आशास्ते । अन्ये तु व्यतिशिष्टे । व्यतिशिढे । इत्यात्मनेपदेऽपि इत्वं स्वीकुर्वन्ति । हौ जह्येधिशाधीति शाधि - रादेशः । शाधि । सर्तिशास्तीति ङः । अशिषत् ॥ चकासृ द तौ । दीप्तिस्तेजः । चक्षादेरित्यन्तोऽत् । चकासति । धे च सलोपः । धातोः सकारस्य लोपः स्यात् धकारे परे । दिस्योरिति दिप्सपोर्लोपः । दिपि सस्येति तः । अचकात् । सिपि तु वा तुः । अचकाः-अचकात् । कासादिप्रत्ययादित्याम् । चकासांचकार । दीधीङ दीप्तिदेवनयोः । देवनं शोकः । वेवीङ् वेतिना तुल्ये । वीगतीत्यनेन तुल्येऽर्तित इत्यर्थः । छान्दसाविमौ । अत एव न व्याख्यातौ ॥ इति सुबोधिन्यां परस्मैपदम् ॥
(तत्त्वदी० ) - शासेरिः ॥ ङे चेति ङानुवृत्तेराङ्: शासु इच्छायामित्यस्य त्वम् । अर्तिसाहचर्यात्परस्मैपदिन एव शास्तेर्डविधानात् । भाष्यमतमाह-धे सलोप इति ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । अगाददादिमध्यस्ः । परस्मैपदसाधनम् ॥ इति तत्त्वदीपिकायां परस्मैपदम् ॥ चक्षिङ् व्यक्तायां वाचि । स्कोराद्योश्च । च न्तोऽदनतः। चक्षते । चक्षे, चक्षाथे, चढे । चक्षीत । चष्टाम् अचष्ट ॥
(सुबोधिनी) -- चक्षि व्यक्तायां वाचि ॥ अयं दर्शने । इकारोऽनुदात्तः । इदितो नुमिति नुम् तु न अन्ते इदित इति व्याख्यानात् । ङ्कारस्तु अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यमिति ज्ञापनार्थः । स्कोरिति कलोपः । ष्ट्रत्वम् । चष्टे । अतोऽन्तोऽदनत इत्यत् । चक्षते । मध्यमे तु स्कोरिति कलोपः । षढोरिति कः । षत्वम् । चक्षे | कलोपे ष्टुत्वे झबे जबा इति ङः चढे । लङि अचष्ट ॥
( तत्त्वदी ० ) - चक्षिङ् ॥ अनुदात्तेत्त्वलक्षणमात्मनेपदम नित्य मेति ज्ञापनार्थो ङकारः । तेन ' अनुक्तमप्यूहति पण्डितो जनः' इत्यादि सिद्धम् । इदित इति नु तु न भवति अन्ते इदिति व्याख्यानात् । अकारस्तु वक्तुमुचितः ॥
( चक्षिङोsपि ख्याञ्कशात्रौ णादौ तु वा ) चख्याँ, चख्यतुः । चख्ये, चख्याते । चक्शा । चक्शे । चचक्षे ख्येयात् - ख्यायात् । ख्यासीष्ट । कशायात्- क्यात् । ( अस्यतिवक्तिख्यातिभ्यो ङो लुङि सेरपवादः ) अख्यत् - अख्यत - अक्शात ॥ ईर् गतौ
चक्षाते । आतोऽचक्ष्वहे, चक्ष्महे ।