________________
[ आख्याते अदादयः ] टीकाद्वयोपेता। कम्पने च । ईर्ते, ईराते । ईम्,ि ईराताम् । ऐर्त । ईरांचक्रे॥ ईरिषीष्ट । ऐरिष्ट ॥ आङः शासु इच्छायाम् । आशास्ते । आशशासे । आशासिष्ट ॥ कसि गतिशासनयोः । कंष्टे, कंसाते । अयमनिदिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे, कशाते । कक्षे, कड्ढे । अकशिष्ट ॥ णिसि चुम्बने । निस्ते, निंसाते । निस्ते । निसिता॥ णिजि शुद्धौ । चोः कुः । निङ्क्ते । निक्ष्ये । निञ्जिता ॥ शिजि अव्यक्ते शब्दे । शिक्ते । शिक्षे । शिञ्जिता ॥ पिजि वर्णे संपर्चने च। पिङ्क्ते । पिपिर्छ । पिञ्जिता ॥ पृचि संपर्चने । पृङ्क्ते । पपृश्चे । पृश्चिता ॥ पृची संपर्चने । पृक्ते । पपृचे । अपर्चिष्ट ॥ ईड स्तुतौ । ईट्टे ॥ __ (सुबोधिनी)-चक्षिङोऽनपि ख्याक्शानौ णादौ तु वा॥ चक्षिङ ख्या कुशाजावादेशौ भवतः अचतुषु । लिटि परे तु वा॥ जित्त्वात्पदद्वयम् ॥ (अस्यतिवक्तिख्यातिभ्यो ङो लुङि सेरपवादः) असुक्षपणे।ब्रुवोवचिः।वच परिभाषणे । इत्युभयोHहणम्।एभ्यो ङप्रत्ययःस्याल्लुङि सेरपवादः॥आतोणब्डावितिडौ। चख्यौ। आतोऽनपीत्यालोपः । चख्ये । चकूशौ । चकूक्षे । चचक्षे । संयोगादेरादन्तस्यैकारो वा ।ख्यायातू-ख्येयात् कूशायात्-क्शेयात्ाख्यासीष्टाकूशासीष्ट । ख्याता । कूशाता । ख्यास्यति । ख्यास्यते । क्शास्यति क्शास्यते । अख्यास्यत् । अख्यास्यत। अक्शास्यत् । अक्शास्यत । अस्यतिवक्तीति ङः। आतोऽनपीत्यालोपः । अख्यत्-अख्यद् । अकशासीत् । अक्शास्त । वजेने ख्याशाजी नेष्टी । समचविष्ट ॥ आङः शासु इच्छायाम्।आपूर्वकत्वं प्रायिकम् । तेन 'नमो वाकं प्रशास्महे' इति सिद्धम्॥ वचेर्घञ् ॥ चजोरिति कः॥ कसि गतिशासनयोः। शासनमाज्ञा।तालव्यान्तोऽप्यनिदित्। छशषति षत्वम् । ष्टुत्वम् कष्टे । षढोरिति कः षत्वं च कक्षे । पत्वष्टुत्वे । झवे इति डः। कडढे।णिजि शुद्धौ । अनिटकेषु णिजिरिति जौहोत्यादिकस्य ग्रहणादयं सेट् । चोः कुरिति जस्य गः खसे चपा इति कः निङ्क्त। गत्वकत्वषत्वानि । निङ्के । शिचि अव्यक्ते शब्द । क्तप्रत्यये शिञ्जितम् । णिन्यन्तादीपि कृते शिञ्जिनी 'भूषणानां तु शिञ्जितम्' इत्यमरः । 'मौर्वी ज्या शिञ्जिनी गुणः' इतिः चामरः॥ चोः कुरिति जस्य गः । खसे चपा इति कः। शिफ्ते ॥ पिजि वर्णे । संपर्चनं मिश्रीभावः ॥ . (ईडीशिभ्यां सध्वयोरिट् ॥) ईडिपे । ईडिध्वे । हाम्॥ (सुबोधिनी)-ईडीशिभ्यां सध्वयोरिट्॥ आभ्यां परयोःसध्वशब्दयोरिटस्यात्।
(लङो ध्वस्य नेट) ऐड्ढम् । ईडांचक्रे । ऐडिष्ट ॥ ईश ऐश्वर्ये । ईष्टे । ईशिषे । ईशिध्वे । ईशांचक्रे । ईशितासे ॥ आस उपवेशने ।