________________
[ आख्याते अदादयः] टीकाद्वयोपेता।
(८७) (सुबोधिनी)-ब्रुवोऽनपि वच् ॥ ब्रुवो वचादेशः स्यादचतुषु । णबादौ पूर्वस्येति पूर्वस्य संप्रसारणम्। उवाच ! यजामिति संप्रसारणम्। ऊचतुः अस्यतिवक्तीङः । डे वचेरित्युम् । अवोचत् ॥ ऊर्ण आच्छादने । आच्छादनमावरणम् ॥
(ऊर्णोतेर्वा वृद्धिहसादौ पिति चतुषु ) ऊर्णोति,ऊौति,ऊर्गुतः, ऊर्णवन्ति । ऊर्गुते । ऊर्णयात् । ऊर्णवीत । ऊ तु । ऊर्णोतु । ऊर्गुहि ॥
(सुबोधिनी)-ऊर्णतेर्वा कृद्धिहसादौ पिति चतुर्षु ॥ ओरौ इति नित्ये औत्वे प्राप्ते इति विभाषा ॥ हरादौ किम् । ऊर्णवानि । पिति किम् । ऊर्णतः । वृद्धयभावे गुणः । ऊोति । दुधातोरित्युवे ऊर्गुवन्ति ॥ (तत्त्वदी० )--उोतेरिति ।' स्तिपा निर्देशो यङ्लुग्व्यावृत्त्यर्थः ॥ (ऊर्णोतेर्गुणो दिस्योद्धरपवादः) और्णोत् । और्णोः॥ (सुबोधिनी) ऊर्णोतेर्गुणं दिस्योवृद्धेरपवादः ॥ ऊोतेर्गुणः स्यात् दिपि सिपि च ऊर्णोतेर्वा इत्यस्यापवा:॥
ऊर्णोतेराम्न ॥ (सुबोधिनी)-उर्णोतेराम्न ॥ अनेकस्वरत्वात्प्राप्त आम् अनेन निषिध्यते ॥
स्वरादेः परः॥ स्वादेर्दातोद्वितीयोऽवयवोऽद्विरुक्तः । सस्वरो द्विभवति ॥
(सुबोधिनी)--स्वरादेः परसस्वर आदिरित्यस्यापवादः। अद्विरुक्तेत्युक्तत्वात्। ' ( तत्त्वदी० )--स्वरादरिति सस्वर आदिरित्यस्यापवादः॥अद्विरुक्तइति ॥तेन इयाजेत्यादौ नातिप्रसंगः ॥
( स्वरात्पराः सयोग दयो नदरा द्विर्न ) ऊर्जुनाव, ऊर्जुनुवतुः॥ (सुबोधिनी)- स्वरात्परः संयोगादयो नदरा द्विर्न ॥ संयोगस्यादयः संयोगादयो नकारदकाररकारास्तषां द्वित्वं नेत्यर्थः ॥ यथा । उन्दी । उन्दिदिषति । इन्दि । इन्दिदिषति । अड्ड । अड्डिडिपति । अर्च । अचिचिषति ॥ इयायेत्यादौ नातिप्रसंगः ॥ (तत्त्वदी० )-आद्योचारणनवार एव णत्वं तु मर्न इत्यनेन विधीयते तेन नुशब्दस्य द्वित्वम्।
( ऊर्णोतरिडादिप्रत्ययो वा ङित् ) ऊर्णनुविथ-ऊर्णनविथ । ऊर्णविता-ऊर्णविता । ऊोतेर्वा वृद्धिः सौ पे । पक्षे वा गुणः। और्णावीत्, और्णाविष्टाम् । और्णवीत्,-और्णवीत्, और्णविष्टाम् । और्णविष्ट-और्णविष्ट ॥ इयदादयः॥