________________
(८८)
सिद्धान्तचन्द्रिका । [ आख्याते ह्वादयः ] (सुबोधिनी)--उर्णोतेरिडादिप्रत्ययो वा डित ॥ ङित्त्वपक्षे तु नुधातोरित्युत् । ऊर्णनुविथ । पक्षे गुणः । ऊर्जुनविथ । और्णावीन्-और्णवीत्-और्णवीत् ॥ इत्यात्पे ॥ ॥ इति सुबोधिन्यामदादयः ॥ (तत्त्वदी० )-कृतायामिह टीकायां लोकेशकरशर्मणा । गणऽदादिरगादेष शेषभाषितपृष्ठगः॥
इति तत्त्वदीपिकायामदादयः ॥ २ ॥
% 3D
अथ ह्वादयः । हु दानादनयोः। ह्वादेर्दिश्च ॥ त्यादेरुत्पत्रस्यापो लुक् धातोश्च द्वित्वम् ॥ जुहोति, जुहुतः॥
(सुबोधिनी) हु दानादनयोः॥ आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः ॥ हादेश्चि ॥ हु आदिर्यस्य स हा देस्तस्य द्वादेः।अदादेरित्यतो लुगित्यनुवृत्तं सप्तम्या विपरिणम्यते द्वादेरिति कर्मणि पो । उच्चारणक्रियायाः कर्मत्वात् । तथा च लुकि सति ह्वादिििदवारमुच्चारणीय इति फलितम् । द्विः प्रयोगो द्विवचनमिति सिद्धान्तः ॥ __(तत्त्वदी०)-हु दानादनयोगदानमिह प्रक्षेपमात्रम्। अग्नौ हविषश्चेति स्वभावालभ्यते। अस्य च नित्यपरस्मैपदित्वात् कुत्रचिरोष्यत इत्यादिप्रयोगाः प्रासादिका एव । 'स्मराग्नौ जुह्वाना' इत्यत्र न शानः किंतु आनशप्रत्ययान्तम् ॥ हादेः॥हु आदियम्प स तथा तस्य । द्वौ वाराविति द्विः । योग्यतयेहोचारणक्रिया लभ्यते । तदावृत्तौ द्विशब्दात्सुः । लुगित्यनुवृत्तं सप्तम्या विपरिणम्यते। तस्मिन्सतीत्यर्थः ॥
द्वः ॥ द्विरुक्तात्परस्यान्तोऽत् ॥ जुह्वति । जुहोषि, जुहथः, जुहुथ । जुहोमि, जुहुवः, जुहुमः । जुहुयात् ।।
(सुबोधिनी)-द्वेः॥ द्वेः किम् । युवन्ति । हुन्वोरिति वः जुह्वति ॥
(तत्त्वदी०) द्वः॥ द्विवचनमस्यास्तीति विग्रहे मत्वर्शयः प्रत्ययोऽव्ययस्य तद्धिते यस्वरयोष्टिलोपश्चास्मादेव लिङ्गात् द्विस्तस्मात् । अन्तोऽन्त् इति द्वयमप्यनुवृत्तम् ॥
(जुहोतर्हेधिः) जुहुधि । अजुहोत् ॥ (सुबोधिनी) जुहोतेधिः ॥ जुहोतेः परस्य हेर्धि: स्यात् ॥ लोडुत्तमे तु परत्वाद् गुणः । जुहवानि ॥
अन उस ॥ द्विरुक्तादन उम् ॥ उसि गुणः॥ अजुहवुः। जुहाव । (सुबोधिनी)- अन उम् ॥ रित्यनुवृत्तम् । परत्वादुसि चेति गुणः । अजुहवुः । (तत्त्वदी०)-अन उम् ॥ द्वरित्यनुवृत्तेराह-द्विरुक्ता दिति ॥