________________
[ आख्याते हादयः ] टीकाद्वयोपेता।
(८९) (भीतीभृहुवामाम्वा स च लुग्वत् ) जुहवांचकार। ये।हूयात् । होता। होष्यति । अहौषीत। जिभी भये । बिभेति ॥ __ (सुबोधिनी)-भीहीभृहुवामाम्वा स च लुग्वत् ॥ एभ्यश्चतुभ्यो वाम प्रत्ययो भवति लिटि स चाम् लुग्वत् ॥ कार्यातिदेशोऽयम् । तेन लुकि सति यत्कार्य द्वित्वादि तदामि परेऽपि भवतीत्यर्थः । जुहवांचकार।पक्षे जुहाव। ये इति दीर्घः। हूयात्। होता। होष्यति । अहोष्यत् । धातोर्नामिन इति वृद्धिः । अहौषीत् ॥
(डिति हसे भीहाकोग्द्विा) बिभीतः--बिभितः, बिभ्यति । बिभीयात्-बिभियात् । बिभेतु-विभतिात्-बिभितात् । अबिभयुः। बिभयांचकार-बिभाय । अभेषीत् ॥ ही लज्जायाम् । जिद्वेति । अजिहृयुः। जिह्रयांचकार-जिह्वाय । ह्रीयात् । दूता। अद्वैषीत् ॥पू पालनपूरणयोः ॥
(सुबोधिनी)-ङिति हसे माहाकोरिद्वा ॥ अनयोः स्वरस्य वेकारो भवति ङिति हसे परे ॥
ऋपोरिः पूर्वस्य ॥ ऋोः पूर्वस्यात इत् लुकि ॥ पिपर्ति ॥ ( सुबोधिनी)-ऋप्रोरिः पूर्वस्य॥ ऋ गतौ।प पालनादौ गुणे कृते । पिपति ।।
पोरुर ॥ पवर्गात् वकागच्च ऋत उर् अगुणवृद्धिविषये । य्वोर्वि हसे । पिपूर्तः, पिपुरति । पिपूर्यात् । पिपर्तु-पिपूर्तात्, पिपूर्ताम्, पिपुरतु । दिस्योर्हसात् । अपिपः । पपार, पपरतुः । पपरिथ । पूर्यात् । परिता-परतिा। परिष्यति-परीष्यति । अपारीत् ॥ पृपालनपूरणयोः । पिपर्ति, पिपृतः, पिप्रति । पिपृयात् । पिपर्तुपिपृतात्, पिपृताम्, पिप्रतु । पिपृहि-पिपृतात् । पिपृतम्, पिपृत । पिपराणि, पिपराव, पिपराम । अपिपः, अपिताम् । पपार, पप्रतुः, पाः। पपर्थ । प्रियात् । पता । परिष्यति । अपरिष्यत् । अपार्षीत, अपार्टीम् ॥ ओहाक त्यागे । जहाति ॥
(सुबोधिनी)-पोरुर ॥ पर्गात् वकारादुत्तरस्य ऋत उर् अगुणवृद्धिविषये ।। यथा वुवूर्षति । य्योर्वि हसे इति दीर्घः। पिपूर्तः। द्वेरित्यन्तोऽत्। पिपुरति । दिस्योरिति दिपसिपोलकाअपिपः।उसि तुगुणः।अपिपरुः। ऋसंयोगादित्यकित्वाणः । पपरतुः । वृबृञिति वेटो दीर्घः। परिता-परीता॥ (तत्त्वदी०)-पोरुर॥ धात्वव पवात्पवर्गादिति बोव्यम्। तेन समीर्णमित्यादौ नातिप्रसंगः ।