________________
(९०)
सिद्धान्तचन्द्रिका |
[ आख्याते ह्रादयः ]
स्तौ ॥ द्वरुक्तस्य धातोरातो लोपो ङिति स्वरे ईकारश्च ङिति इसे ॥ जहितः- जहतिः । जहति ॥ (हाको यादादावालोपः) जह्यात् ॥ (सुबोधिनी) - ॥ द्वौ वाराविति द्विरुच्चारणे सुप्रत्ययः । द्विरकारि इति ञिर्डित्करणे इति ञिः । ञौ स्वन्तस्य टिलोपः । औणादिके इप्रत्यये ञिलोपः । अत्रानुवृत्त्यैव ईलोपयोलभेऽपि अनन्तरत्वादीकारस्यैव ग्रहणं मा भूदित्येतदर्थं तावित्युक्तम् ॥ ननु तर्हि द्वेश्चोत पाठ्यम् अनन्तरत्वादीश्वालोपोऽनुवर्तताम् । एवं ङिति हसे लोपः । ङिति स्वरे ईरिति विपर्ययस्यापि संभवात् । तावित्युक्ते तु नातः ईहसे अनयोर्यादृशौ दृष्टौ तावेवास्तइति न दोषः । पक्षे भीहाकोरिति इत्वम् । जाहितः । हाको यादादावालोपः ।
(तत्त्वदी ० ) - स्तौ ॥ देरित्यस्य पूर्ववत्प्रक्रिया | अनुवृत्त्यैव: इलोपयोर्लाभेऽपि अन्तरत्वादीकारस्यैव ग्रहणे मा भूदित्येतदर्थं तावित्युक्तम्॥ ओमरितो लोपः । ई हसे इत्यत ईकारस्तस्य ह इत्यनेन योगाद्धसे ईकारः । परिशेषात्स्वरे लोपः ॥
ईर्वाह ॥ जहातेर्हो परे इकार ईकारश्च वा । जहिहि - जहीहि-जहा - हिं । अजहात्, अजहिताम्- अजहीताम् अजहुः । जहौ । दादेरे । हेयात् । अहासीत् ॥ ऋ गतौ । असवर्णे स्वरे इय् ॥ इयर्ति, इयृतः, इयरति । इयृयात् । इयर्तु । ऐयः, ऐमृताम्, ऐयरुः । आर, आरतुः आरुः । अत्यर्तिव्ययतीनामितीट् ॥ आरिथ । आरत् ॥ सृ गतौ । सति । ससर्थ । स्त्रियात् । असरत् ॥ इति पम् ॥
(सुबोधिनी) - ईर्वा हौ ॥ जहातेर्हो परे इत्वमीत्वमात्वं च भवति । अत एव भट्टि प्रायुङ्क्त । 'जहिहि जहीहि जहाहि रामभार्याम्' इति ॥ दादेरित्येत्वम् । हेयात् । यामरमिनमातामितीट्सकौ । अहासीत् । ऋमोरीत पूर्वस्येत्वम् । असवर्णे स्वरे इतीय् । इयात् । लङि अडागमो दिस्यांोरीत दिपूसिपोर्लोपः । ऐयः । उसि तु गुणः । ऐयरुः । अत्त्यर्तिव्ययतीनामिति थपि नित्यमिट् । आरिथ । आशिषि गुणोऽतीति गुणः । अर्यात् । हन्त इतीट् । आरष्यति । सर्तिशास्त्यर्तिभ्य इति ङः । ऋवर्णदृशोरिति गुणः । आरत्, आरताम्, आरन् ॥ इति सुबोधिन्यां परस्मैपदम् ॥
( तत्त्वदी ० ) - ईर्वा हौ ॥ ई इरिति छेदः, तयोरभावपक्षे आकारः स्थित एव ॥
कृतायामिह टीकायां लोकेशकरशर्मणा । अगमद्ध्वादिमध्यस्थपरस्मैपदसाधनम् ॥ इति तचदीपिकायां परस्मैपदम् ॥