________________
[आख्याते ह्वादयः ] टीकाद्वयोपेता।
ओहाङ् गतौ । भृञां लुकि ॥ डुभृहाङ्माङो पूर्वस्यात इत् लुकि ॥ जिहीते, जिहाते, जिहते । जहे । अहास्त ॥ माङ माने ।' मिमीते । ममे । अमास्त ॥ इत्यात् ॥ __ (सुबोधिनी)-भृञां लुकि।बहुवचनेन डुभहाङ्माङामिति त्रयाणां ग्रहणम् । द्धरित्यन्तोऽत् । जिहते । आतोऽनपीत्यालोपः। जहे, जहाते॥इति सुबोधिन्यामात्मनेपदम् ॥
(तत्त्वदी०)-भृञामिति॥ कपिञ्जलाधिकरणन्यायेन धातुत्रयमेव लभ्यत इत्याह--दुभृञ्हाङ्माङामिति ॥ कृतायामिह टीकायां लोकेशकरशर्मणा। अगमद्ध्वादिमध्यस्थमात्मनेपदसाधनम् ॥
___ इति तत्त्वदीपिकायामात्मनेपदम् ॥ डुभृञ् धारणपोषणयोः। बिभर्ति, बिभृतः, बिभ्रति । बिभृयात् । बिभर्तु । अबिभः । बिभरांचकार । बभर्थ । बभृव । बभ्रे । बभृम । बभृट्वे । भृषीष्ट । अभार्षीत् । अभृत॥ डुदाज दाने । ददाति ॥
(सुबोधिनी)-डुभृञ् धारणपोषणयोः ॥ ड्वितंत्रिमक इति त्रिमक । भृत्रिमम् । भृञां लुकि इति पूर्वस्येत्वम् । विभात । विभृते । विभृयात् । विभ्रीत । बिभर्तु, बभूताम् ।दिस्योरिति दिसिपोर्लोपः। अविभः । उसि तु गुणः ।अबिभरुः। आविभृत । भीहीभृहुवामामिति वाम् । बिभरांचकार । बिभरांचक्रे । पक्षे बभार । बभ्रे । यादादौ इति रिङ् । भ्रियात् । उरिति न गुणः । भृषीष्ट भाहिन्नृत इतीड्। भरिष्यते।अभरिष्यत् । अभरिष्यत । धातोर्नामिन इति वृद्धिः। अभार्षीत् । लोपो ह्रस्वादिति सिलोपः। अभृत ॥
(तत्त्वदी०)-डुभृमिति । वितस्त्रिमगर्थो डुः ॥
दादेः ।। द्विरुक्तानामपिदाधामातो लोपो डिति ॥ दत्तः, ददति । दत्ते । ददातु ॥ (सुबोधिनी)दादेः॥रित्यनुवृत्तम्।देस्तौ इत्यस्यापवादो येन नाप्राप्तिन्यायात् । (तत्त्वदी०)-दादेरिति ॥ द्वेस्तावित्यस्यापवादो येन नाप्राप्तिन्यायात् ॥
दां हौ ॥ अपिदाधामेत्वं पूर्वस्य च लोपो हो॥ देहि । अददात् । ददौ । ददिथ-ददाथ । देयात् । अदात् । अदित, अदिषाताम् ॥ दुधाचूधारणपोषणयोः । दधाति ॥
(सुबोधिनी)-दां हो॥बहुवचनेन धाजो ग्रहणम् । लिटि आतो णबित्यौकारः । ददौ । आतोऽनपीत्यालोपः । ददे । दादेरिस्येत्वम् । देयात् । दादेः पे इति सेलृक् ।