________________
(९२)
सिद्धान्तचन्द्रिका। [ आख्याते ह्रादयः ] अदात् । आति तु अपिदाधास्थामितीत्वम् । लोपो हस्वादिति सिलोपः । अदिति।। डुधाञ् धारणपोषणयोः । दानेऽपीत्येके ॥
(तत्त्वदी०)-दामिति बहुवचनेन दारूपाणां ग्रहणं धाग्रहणं च ॥ . पूर्वस्य ङिति झसे धः ॥धाञः पूर्वस्य दकारस्य धो भवति डिति झसे परे ॥ धत्तः, दधति । धत्ते । धेहि । अधात् । धेयात् । "अधित, अधिषाताम् ॥ णिजिर शौचपोषणयोः॥
(सुबोधिनी)-पूर्वस्य ङिति झसे धः॥धाञ्धातोरेवेत्यर्थः॥ङिति झसे किम्। दधाति । दधति । दादरित्यालोप तथोर्ध इति धत्वं न दधातर्नेत्युक्तत्वात् । धत्तः । धत्ते । दादेरित्यालोपः। दध्यात् । दधीत । दधातु । धत्ताम् । अदधात् । अधत्त । दधौ । दधे । धेयात् । धासीष्ट । धाता । धास्यति । धास्यते । अधास्यत् । अधास्यत । दादेः पे इति सिलोपे । अधात् । अपिदास्थामितीत्वम् । अधित ॥
(तत्त्वदी०) धत्त इति॥तथोध इत्यत्र वावसान इत्यतो वानुवृत्तर्व्यवस्थया तस्य धत्वाभावः ।
निजां गणः॥ णिजिविजिविषां पूर्वस्य गुणो लुकि ॥ नेनेक्ति, नेनिक्तः, नेनिजति । नेनेक्षि । ननिक्ते । नेनिज्यात् । नेनेक्तु । ननिग्धि ॥
(सुबोधिनी)-निजां गुणः॥ बहुवचनमाद्यर्थम् । बहुवचनेन त्रयाणां ग्रहणम् । णिजिर शौचपोषणयोः। विजिर पृथगभावे । विश्ल व्याप्तौ । । एषां पूर्वस्य गुणो लुकि॥
द्वेः स्वरेऽपि नोपधागुणः॥ द्विरुक्तस्य धातोगविषये स्वरे परे उपधाया गुणो न ॥ नेनिजानि । अनेनेक्-अनेनेग् । निनिजिषे । निनेज । निनिजे । निक्षीष्ट । अनिजत्-अनैक्षीत् , अनैक्ताम् । अनिक्त ॥ विजिर् पृथग्भावे । वेवेक्ति । विवेजिथ । विक्षीष्ट । अविजत्-अवैक्षीत् । अविक्त ॥ विष्ल व्याप्ती । वेवेष्टि । विविाषीध्वे । विक्षीष्ट । अविषत् । तनि हशबान्तात्सक् । अविक्षत, अविक्षाताम्, अविक्षन्त ॥ इत्युभयपदप्रक्रिया ॥ इति हादयः॥
(सुबोधिनी)-द्वेः स्वरेऽपि नोपधागुणः॥ द्विरुक्तस्य धातोरुपधाया गुणो न चतुषु पिति स्वरे ॥ द्विरुक्तस्य किम् । देषाणि । स्वरे किम् । वेवेष्टि ॥ चतुर्पा किम् । निनिज ॥ नेनेक्ति । नेनिक्त।नेनिज्यात् । नेनिजीत ।नेनेक्तु । नेनिक्ताम्। दिस्योरिति दिसिपोर्लोपः । अनेनेक् । अन ऊसि अनेनिजुः । अनेनिक्त । निनेज । निनिजे । 'निज्यात् । सिस्योरिति न गुणः। निक्षीष्ट । नेक्ता । नेक्ष्यति । नेक्ष्यते । अनेक्ष्यत् । अनेक्ष्यत । इरितो वेति वा ङः । अनिजत् । अनिटोनामीति वृद्धिः। अनैक्षीत् ।