________________
[ आख्याते दिवादयः ] टीकाद्वयोपेता । आत तु । झसादिति सिलोपः । अनिक्त, अनिक्षाताम् ॥ विजिर पृथग्भावे । विवेजिथ । अत्र विजेरिडादिप्रत्यय इति ङित्त्वं न । ओविजी भयचलनयोरित्यस्यैव तत्र ग्रहणात् । णिजिविजी रुधादावपि ॥ विष्ल व्याप्तौ । व्याप्तिः कात्य॑म् । लित्पुषादरिति ङः । अविषत् । आति तु । हशषान्तादिति सक् । षढोरिति कः । अविक्षत । आति सको लोपः स्वरे इति अल्लोपः । अविक्षाताम्, अविक्षन्त ॥ इत्यात्पे ॥ इति सुबोधिन्यां ह्वादयः॥
(तत्त्वदी० )-कृतायामिह टीकायां लोकेशकरशर्मणा । संक्षिप्तो बालबोधार्थं जुहोत्यादिगणोऽगमत् ॥
इति तत्त्वदीपिकायां हादयः ॥ ३ ॥
अथ दिवादयः । दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु॥
दिवादेर्यः ॥ कर्तरि चतुषु । अपोऽपवादः ॥ य्वोर्वि हसे ॥ दीव्यति । दीव्येत् । दिदेव । दीव्यात् । अदेवीत् ॥ षिवु तन्तुसंताने। सीव्यात । (सिवादेरव्यवाये वा षः ) न्यषेवीत् ॥ न्यसेवीत् ॥ नितु गतिशोषणयोः । स्त्रीव्यति । सिस्नेव ॥ ष्ठिवु निरसने । ष्ठीव्यति ॥ ष्णुसु अदनादानदर्शनेषु । सुष्णोस ॥ ष्णसु निरसने । स्नस्यति ॥ क्नसु कौटिल्ये दीप्तौ च । चक्नसिथ । अक्नासीत्। अक्नसीत् ॥ व्युषु प्लुषु दाहे । व्युव्योष ॥ नृती गात्रप्रक्षेपे । नृत्यति । ननर्त ॥
(सुबोधिनी)-दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ॥उदित्करणं क्त्वाप्रत्यये इड्विकल्पार्थ क्तक्तवत्वोरनिडर्थच। क्ङिति झसे क्वौ जमे चेत्यूः। द्यूत्वा-देवित्वा । द्यूतेन दीव्यन्ति माणवकाः क्रीडन्तीत्यर्थः। शत्रु दीव्यात विजिगीषतीत्यर्थः । कान्तिरिच्छा, द्युतेः पृथग्ग्रहणात्। दिवादेर्यः । दिव आदिर्यस्य स दिवादिः तस्माद्यप्रत्ययः स्यात् कर्बर्थेषु चतुर्यु परतः। वोरिति दीर्घः। दीव्यति ॥ पिवु तन्तुसंताने । आदेः ष्णः स्न इति सः। सीव्यति । सिवादेरड्व्यवाये वा षः। उपसर्गस्थानिमित्तात्परस्य सिवादेः सस्याव्यवधाने वा षः स्यात् ॥ प्रादेश्चेत्यत्र सिवादिरुक्तः॥ नृती गात्रविक्षेपे । नर्तने इत्यर्थः । ईदित्करणमादीदित इत्यनेन क्तक्तवत्वोरिणनिषेधार्थम् । यद्यपि नृततृदेतीटो विकल्पितत्वात् क्वचिद्वेट् इत्यनेनैवेष्टं सिद्धयति तथापि क्वचिद्धेट इति सूत्रस्यनित्यत्वज्ञापनार्थमीदिकरणम् । तेन धावु गतिशुद्धयोरित्यस्मात् क्तप्रत्यये इटि च 'धावितमिभराजधिया' इत्यादि सिद्धम् ॥
Inel