________________
(९४)
सिद्धान्तचन्द्रिका । [आख्याते दिवादयः ] - (तत्त्वदी०)-दिवु ॥-व्यवहारः यादिः । उकारः क्तप्रत्यये इड्किल्पार्थः॥ दिवादेर्यः 'दिव आदिर्यस्य स तथा तस्मात् ॥ अपोऽपवाद इति। अपो गणविशेषाकाङ्क्षाभावात्प्राप्तेः॥
दीव्यतीति ॥ यप्रत्ययस्य ङित्त्वाद् गुणो न ॥ .. (नृततृदछदचूतकृद्भूयोऽसेः सादेरिडा) नर्तिष्यति-नर्त्यति।
अनीत् ॥ त्रसी उद्वेगे। भ्राशभ्लाशेति वा यः। त्रस्यति-त्रसति । तत्रास, तत्रसतुः॥ कुथ पूतीभावे । कुथ्यति । चुकोथ-चुकोथिथ ॥पुथ हिंसायाम् । पुथ्यति । अपोथीत् ॥ गुध परिवेष्टने । गुध्यति । अगोधीत् ॥ क्षिप प्रेरणे । क्षिप्यति । क्षेप्ता । अप्सीत् ॥ पुष्प विकसने । पुष्प्यति ॥ पुपुष्प ॥ तिम् तीम् ष्टिम् ष्टीम् आर्दीभावे । तिम्यति । तीम्यति । तितेम । तिष्टीम ॥ ब्रीडलज्जायाम् । वीडयति । विव्रीडा इष गतौ । इष्यति । इयेष । ईषतुः। एषिता । ऐषीत् ॥ षह षुह तृप्तौ । सह्यति । ससाह, सेहतुः, सेहुः । असहीत् । सुह्यति ॥ जृषिर् झुष् वयोहानौ । जीर्यति । जजरतु:-जेरतुः । जीर्यात् । जरिता-जरीता। ऋवर्णदृशोरित्यनेन गुणः । अजरत्-अजारीत् 1 झीर्यति । जझरतुः। अझारीत् ॥ शो तनूकरणे ॥ us ....
( सुबोधिनी)--नृततृदछुदतृतकृद्भयोऽसेः सादेरिडा॥एभ्यः परस्य सिभिनस्य-सादेः प्रत्ययस्येडा स्यात् ॥ उतृदिर हिंसानादरयोः। उछृदिर दीप्तिदेवनयोः। कृती छेदने । असेरित्युक्तत्वादिह नित्यमिट् । अनीत् । सप्रत्यये निनर्तिपति-निनृत्सति । भ्राशभ्लाशति वा यः। त्रस्यति-त्रसति ।फणराज इत्येवपूर्वलोपौ । त्रसतुः । अतो हसादेरिति वा वृद्धिः । अत्रासीत्--अत्रसीत् ॥ कुथ पूतीभावे । पूतीभावः पवित्रभवनम् । कुथ्यति भूमिः पवित्रीभवतीत्यर्थः । पुष्प विकसने । षान्तोऽयम् । शतृप्रत्यये पुष्प्यन् । पचाद्यप्रत्यये पुष्पम् । संज्ञायां कप्रत्यये पुष्पकम् ॥ व्रीड चोदने लज्जायां च । चोदनं प्रेरणम् । गुरोर्हसादित्यप्रत्यये आवत इत्याप् । ब्रीडा । घनि तु वीडः । अत एव 'ब्रीडादिवाभ्यासगतैर्विलिल्ये' इति माघः ॥ 'व्रीडमावहति मे स संपति' इति कालिदासः॥ षह षुह तृप्तौ । तृप्तिस्तर्पणम् । इषुसहेतीविकल्पस्त्वस्य न भवति सहेत्यपा निर्देशात् । नपुंसके भावे क्तप्रत्यये सुहितं तृप्तिः।।जृषिर झष् वयोहानौ । पित्त्वात षिद्भिदामित्यङ्प्रत्यये जरा । ऋत इर् इतीर । वोरिति दीर्घजीर्यति।ऋसंयोगाण्णादिरित्यकित्त्वाद्गुणे कृते शशददेति गुणशब्देन भावितस्य निषेधालोपःपचामित्यस्याप्रवृत्तौ फणराज इत्येत्वपूर्वलोपविकल्पोजेरतुःजजरतुः । वृद्धृऋदन्तानामिति वा दीर्घाजरिता-जरीता । इरितो वेति वा ङः। ऋवर्णदृशोरितिगुणः।अजरत् पक्षेणित्पे इति णित्त्वाद्धातोर्नामिन इतिवृद्धिः अजारीत्॥