________________
[ आख्याते दिवादयः ]
टीकाद्वयोपेता ।
(९५)
. (तत्त्वदी०)--नृतेति ॥ उतृदिर् हिंसानादरयोः । उच्छृदिर् दीप्तिदेवनयोः। त्रस्पति । प्राशे'ति वा यः । पक्षेऽ । पुष्प विकसने। पान्तः । 'तया नभः पुष्प्यतु कोरकेण" इति श्रीहर्षः।।बीड ॥ 'ब्रीडादिवाभ्यासगतैर्विलिल्ये' इत्यत्र घ । 'मन्दाक्षं हीस्त्रपा ब्रीडा' इत्यत्र गुरोश्चेत्यः ॥ षह । अत्रेषुसहेतीडिकल्पः कस्यचिन्मते न भवति, अबन्तनिर्देशाद्भौवादिकस्यैव तत्र ग्रहणात । महान्तस्तु विकल्पं मन्यन्ते अकारस्योचारणाथत्वात्।। ऋषिर ॥ षकारो जरेत्यत्रार्थः । अजरत् । ऋवर्णदृशोरिति गुणः ॥ ___य्योः॥ यत्प्रत्यये परे धातोरोतो लोपः ॥ श्यति । शशौ ।। शाता । अशात्--अशासीत् ॥ छो छेदने । छयति । अच्छात्-- अच्छासीत् ॥ षो अन्तकर्मणि । स्यति । सेयात् । असात्-असासीत् ॥ दो अवखण्डने । यति । देयात् । अदात् ॥ राध साध संसिद्धौ ॥ ।
(सुबोधिनी)-य्योः॥ यि ओरिति च्छेदःोधातोरोतो लोपः स्यात् दिवादिविकरणे ये परे ॥ तेन लव्यमित्यादौ न । शाछेति वा सेर्छक । अशात् । लुगभावे यमिरमीतीट्सकौ । अशासीत् ॥ षोऽन्तकर्मणि । अन्तकर्म नाशः । दादरे इत्येत्वम् । सेयात् । 'राधवस्य शरै||रं रावणमाहवे'इत्यत्र राघवेति संबोधनम् । स्येति लोटो मध्यमस्यैकवचनान्तम् ॥दादेरित्येत्वम् ।देयात् । उपसर्गस्थानिमित्तान्नेरिति णत्वम् । प्रणिदाता। 'दादें: पे' इति सिलुक । अदात् ॥ ___ तत्त्वदी०)-य्योः ॥ यि ओरिति च्छेदः । विकरणप्रकरणत्वाद् दिवादेर्य इति विहित एवं गृह्यते न त्वन्यः । तेन लव्यमित्यादौ नातिप्रसंगः ॥ षो ॥ अन्तकर्म नाशः ।। . (राधोऽकर्मकादेव यः) राध्यति । रराधिथ । राद्धा।रात्स्यति। अरात्सीत् ॥ व्यध ताडने । ग्रहां क्ङिति च । विध्यति । विव्याध । विविधतुः। विव्यधिथ-विव्यद्ध । व्यद्धा । अव्यात्सीत् ॥ पुष पुष्टौ । पुष्यति । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादित्वात् ङः । अपुषत् ॥ शुष शोषणे । शोष्टा । शोक्ष्यति । अशुषत् ॥ तुष तुष्टौ। तोष्टा । तोक्ष्यति । अतुषत् ॥ दुष वैकृत्ये । दोष्टा । अदुषत् ॥ श्लिष आलिङ्गने । श्लेष्टा॥
सुप्रील २४ (सुबोधिनी)-राधोऽकर्मकादेव यः ॥ अकर्मकाद्राधेर्यप्रत्ययः स्यात् सकमकात्तु न। 'यन्मह्यमपराध्याति' द्रुह्यतीत्यर्थः । 'विराध्यन्तं क्षमेत कः' दुह्यन्तमित्यर्थः । राद्धयत्योदनः सिध्यतीत्यर्थः॥ अकर्मकात् किम् । शत्रुमपरानोति हिनस्तीत्यर्थः। राध संसिद्धौ हिंसायां च स्वादिश्चुरादिश्चायम् । राधो हिंसायामित्यनेनैत्वपूर्वलोपाविह न हिंसार्थकस्य सकर्मकतया दैवाकित्वाऽयोगात् ॥ ग्रहामिति संप्रसारणम् । विध्यात । लित्पुषादेरिति ङः। अपुषात् ॥ षढोरीित कत्वं षत्वं च । शोक्ष्यति ॥