________________
(८६)
सिद्धान्तचन्द्रिका। [आख्याते अदादयः) अलिक्षाथाम्।अलीद्वम्-अलीक्षध्वम् । अलिक्षि, अलिबाह -अलिक्षावहि,अलिक्षामहि। ओरौ इत्यौ । स्तौति । तुरुस्तुभ्य इतीड् वा । स्तवीति । नुधातोरित्युत् । स्तुवन्ति ॥
(स्तुसुधुजां पे सेरिटू) अस्तावीत् । अस्तोष्ट ॥ ब्रून व्यक्तायां वाचि॥
(सुबोधिनी)-स्तुसुधूनां पे सेरिट् ॥ ष्टुञ् स्ट तौ । षुञ् अभिषवे । धूत्र कम्पने । एषां परस्मैपदस्य सेरिट आति तु न । धातोर्नाग्नि इति वृद्धिः। अस्तावीत् । आति तु गुणः । षत्वष्टुत्वे । अस्तोष्ट ॥ 'अबादावीप्पिति स्मि ॥ ब्रुव ईप्प्रत्ययो बादौ पिति स्मि । ब्रवीति, ब्रूतः, अवन्ति ॥
(सुबोधिनी)-अबादावीप्पिात विस्म ॥ ब्रुवः परेषां पितां तिवादीनां चतुर्णा तकारसकारमकारादिप्रत्ययानामीबागमः स्यात् ।
(तत्त्वदी०)-अबादाविति ।। अप आदिः स्थानीयस्य तथा अब्लुक् तेन लुग्विषय इत्यर्थः । स्मीत्यत्र हि सतकारको निर्देशः। दस्य खसे चपा इति नः । तेनाब्रवीदिति सिद्धयति॥
ब्रव आहश्च पञ्चानाम् ॥ ब्रुवः परेषां तिवादीनां पञ्चानां णबादयः पञ्चादेशा वा स्युः ब्रुव आहश्च ॥ आह, आहतुः, आहुः॥
(सुबोधिनी )ब्रुव आहश्च पञ्चानाम् ॥ ब्रुवः धातं राहादेशः । अकार उच्चारणार्थः । तिबादीनां पञ्चानां क्रमेण णवादयः पञ्चादेाश्च ॥ अत्र द्विश्चेति द्वित्वं न उक्तार्थ इत्युक्तत्वात् ॥
(तत्त्वदी०)-पञ्चानामिति ॥आदेशादेशिनोः संख्यासाम्पादादेशा अपि पञ्चैव ग्राह्याः । द्विश्चेत्यत्र परोक्षार्थणादियोगे द्वित्वविधानादेतद्योगे द्वित्वं न ॥
तस्थे॥ आहो हस्य तस्थे परे ॥ आत्थ, आहए। ब्रूते । ब्रवीतु । अब्रवीत् ॥ __ (सुबोधिनी)-तस्थे ॥ आह इत्यनुवर्तते । तच्च षष्ठ या विपरिणम्यते । षष्ठीनिर्दिष्टत्वेनान्त्यस्य हस्येत्यर्थः ॥
(तत्त्वदी०)-तस्थ इति ॥ आह इत्यनुवर्त्य तच्च षष्ठया विपरिणम्य षष्ठीनिर्दिष्टत्वेनान्त्यस्येत्याह-हस्येति॥
(ब्रुवोऽनपि वच् ) उवाच । ऊचे। अवोचत् । अवोचत । आदाथ इः॥ अवोचेताम्, अवोचत । अवचिथाः। अवौचथाम्, अवोचध्वम् ॥ अवोचे । अवोचावहि ॥ उणु आच्छादने ॥