________________
[ आख्याते अदादयः ]
टीकाद्वयोपेता ।
(८५)
(सुबोधिनी ) - इङो वा गीर्लुङ्लङोर्गुणाभावश्च ॥ इङो गी इत्यादेशो वा स्यात् गुणनिषेधश्च लुङ्लङोः परयोः ॥ इति सुबोधिन्यामात्मनेपदम् ॥
( तत्त्वदी० ) - कृतायामिह टीकायां लोकेशकरशर्मणा । अगाद्ददादिमध्यस्थमात्मनेपदसाधनम्॥ इति तत्त्वदीपिकायामात्मनेपदम् ।
द्विष अप्रीतौ । द्वेष्टि, द्विष्टः । द्वेष्टु । द्विढि | अद्वेट्-अद्वेड्, अद्विष्टाम्, अद्विषुः - अद्विषन् । दिद्वेषिथ । द्विक्षीष्ट । अद्विक्षत् ॥ दुह प्रपूरणे । दादेर्घः । तथोर्धः । दोग्धि, दुग्धः, दुहन्ति । धोक्षि | दुग्धे । दोग्धु । दुग्धि । दोहानि । अधोक्-अधोग । दुदोंह | धुक्षीष्ट । अधुक्षत् । अदुग्ध-अधुक्षत, अधुक्षाताम् । अदुग्धाःअधुक्षथाः । अधुग्ध्वम् - अधुक्षध्वम् । अदुह्वहि अधुक्षावहि ॥ दिह उपचये । देग्धि | लिह आस्वादने । लेढि, लीढः ॥ टु स्तुतौ । स्तौति - स्तवीति, स्तुतः - स्तुवीतः, स्तुवन्ति । स्तौषि - स्तुवीषि । स्तुते - स्तुवते । स्तुवीष्व । अस्तौत् । तुष्टोथ । तुष्टुव । तुष्टुम । स्तोषीष्ट ॥
(सुबोधिनी) - द्विष अप्रीतौ ॥ अप्रीतिः शत्रुता । ष्टुत्वम् । द्वेष्टि । द्विष्टे । द्विष्यात् । द्विषीत । द्विष्टाम् । हौ ष्टुत्वम् । झभे जबा इति डत्वम् । द्विड्ढि | द्वेषाणि । द्वेषे | दिस्योरिति दिसिपोर्लोपः । वावसाने इति वा टः । अद्वेट - अद्वेड् । आदन्ताद्दिष इत्यन उस वा । अद्विषुः - अद्विषन् । आति तु अद्विष्ट । दिद्वेष । दिद्विषे । द्विष्यात् । षढोरिति कः षत्वं च । द्विक्षीष्ट । द्वेष्टा । द्वेक्ष्यति । द्वेक्ष्यते । अद्वेक्ष्यत् । अद्वेक्ष्यत । हशषान्तादिति स । अद्विक्षत् । अद्विक्षत । आति सको लोप इत्यलोपे अद्विक्षाताम् । दुह प्रपूरणे । प्रपूरणं त्यजनम् । दादेर्घ इति घः । तथोरिति तस्य धः । झभे जबा इति गः । दोग्धि । सिपि तु घत्वम् । आदिजबानामिति घः । खसे चपा इति कः षत्वं च । धोक्षि । लङि दिस्योरिति दिसिपोर्लोपः । घत्वधत्वकत्वानि । अधोकू । लुङि हशषान्तादिति सः । घत्वधत्वकत्वषत्वानि । अधुक्षत् । आति तु अधुक्षत । दुहदिति सको लुकपक्षे तन्थासुध्वं वहिषु लङवत् । घत्वं तथोर्ध इति धत्वम् । झभे जबा इति गः । अदुग्ध । अदुग्धाः । धत्वे अदुग्धम् । अदुह्वहि || दिह उपचये । उपचयो वृद्धिः ॥ लिह आस्वादने । हो ढ इति ढः । तथोर्द्ध इति धः। ष्टुत्वम् । ढि ढो लोप इति ढलोपः। लेढि । सिपि ढत्वम् । षढोरिति कः । षत्वम् | लेक्षि । हौ ढत्वं झसादिति हेर्धिः । ष्टुत्वम् । ढि ढ इति ढलोपपूर्वदीर्घौ । लीढि । लुङि हशषान्तादिति सकू । अलिक्षत् । आति तु अलिक्षत । दुहदिहति सको लुकपक्षे ढत्वधत्वष्टुत्वढलोपपूर्वदीर्घाः । अलीढ । आति सक इत्यलोपे । अलिक्षाताम, अलिक्षन्त । अलीढाः - अलक्षथाः । अलोपः ।