________________
(१४)
सिद्धान्तचन्द्रिका। [आख्याते म्वादयः ] (सुबोधिनी)-द्विश्च ॥ णबादीत्यनुवृत्तं सप्तम्या विपरिणम्यते । धातोद्विवचनं भवति णादौ परे॥ द्वौ वाराविति दिः द्वित्रिचतुर्म्य इति क्रियावृत्तौ सुः । अत्र क्रियावाचकं विना क्रियावृत्तेरसंभवाद्वचनमित्यध्याहियते । तच्च कृदन्तम् । तदपेक्षया धातो'रिति कर्मणि षष्ठी । धातोर्दै उच्चारणे कर्तव्ये इत्यर्थः॥अनन्तरस्येति न्यायेनोक्तणादियोगेनैव द्वित्वम् । न विदो नवानामिति विहितणादियोगे । अत्र द्विवचनं द्विःप्रयोगएव, न त्वादेशः । तेन तुतोसेत्यादौ कृतस्य सस्याभावात् षत्वं न ॥
(तत्त्वदी०)-द्विश्चेति ॥ द्वौ वाराविति द्विः । द्वित्रिचतु-र्यः सुरिति क्रियावृत्ती सुः। क्रियावृत्तिश्च क्रियावाचकं विना न संभवतीति वचनपदयोगः । अत्र द्विवचनं द्विः प्रयोग एव न त्वादेशः । तेन तुतोसत्यादौ कृतस्य सस्थाभावात्षवं न अनन्तरस्येति न्यायादुक्तणादिरेव गृह्यते,न तु विदो नवानामित्यादिविहितोऽपि । तेन वेदेत्यादौ द्वित्वं न ॥
सस्वरादिरिद्विः॥ अनेकस्वरस्य धातोः सस्वराद्योऽवयवोऽद्विरुक्तो द्विर्भवति ॥ (सुबोधिनी )-सस्वरादिविरद्विः ॥ अद्विरुक्तः किम् । बोभूयिषते ।।
णादिः कित् ॥अपिण्णादिः कित् ॥ __ (सुबोधिनी)-णादिः कित्॥अपित्तादिर्डिदित्यतोऽपिदित्यनुवृत्तम् । ण आदियस्याष्टादशात्मकस्य समुदायस्य स णादिः। कित् किद्धताकार्यातिदेशोऽयमाईजतुः। जुहुवतुः॥
(तत्त्वदी०)-णादिः किदिति ॥ण आदिर्यस्य स ण देः । अपित्तादिर्डिदिति सूत्रादपिदित्यनुवर्तते ॥ नन्वत्र किदिति किमर्थ पूर्वसूत्रात् ङिदित्यस्यानुवृत्तरेव सत्त्वादिति चेत्सत्यम्, ईजतुरित्यादौ संप्रसारणं न सिद्धयेत् । चक्रतुरित्यादौ डित्यदुरित्युत्वसंगापत्तेश्च ।अथ णादिरित्यत्र ज्वलादेर्ण इति विहितः कुतो न गृह्यते इति चेत्सत्यम् । क्या किपो कित्त्वेन तदग्रहणस्य सिद्धत्वात्। यत्तु वासुदेवेन ऋसंयोगान्नेत्यनन्तरं क्त्वासेटः किद्वेत्यतोऽनन्तरतो वाऽनुकर्षणात्कचित्संयोगाद्वा कित्त्वम् , तेन ममन्थतुः ममथतुरिति रूपद्वयमपि स्वीकृतं तदपाणिनं यत्वादुपेक्षितम् । ममन्थतुरित्यस्यैवोचितत्वात् ॥ . आभ्वोर्णादौ ॥ पूर्वस्याकारस्य भूशब्दस्य चाकारो णादौ परे॥ . (सुबोधिनी)-आभ्वोर्णादौ॥ अश्च भूश्च अभ्वौ तयोः पूर्वस्य इसादिरित्यतः पूर्वस्येत्यनुवृत्तम् ॥
. (तत्त्वदी०)-आभ्वोर्णादाविति ॥ आम्वोरिति छेदः । अश्च भूश्च अभ्वौ तयोः । पूर्वस्य हसादिरिति सूत्रात् पूर्वस्येत्यनुवर्तते ।षष्ठीनिर्दिष्टत्वाद् भुव उकारस्या।नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे इत्यत्र अभ्यासविकारत्वान्नान्त्यस्य निषेधः ।यत्तु नो वेत्यतो वेत्यनुवृत्तेर्व्यवस्थया भावकर्मणोर्भुवो नात्वम् । तेन बुभूवे सुखमनुबुभूवे इत्युक्तं वासुदेवेन । तन्न । बभूवे अनुबभूवे इति रूप