________________
[ आपाते भादयः ] टीकाद्वयोपेता। मत्ता किलाहम्' इत्यादिप्रयोगाः सिद्धा ।।बहुव्रीहिपक्षेऽद्यतनेऽद्यतनाभावादद्यतने दिवादिप्रसङ्गाशङ्का तु न । अद्यतनेऽव्यापकेऽद्यतनस्य व्या' यस्य सत्वात् ॥
दिवादावट ।। धातोः ॥ अभवत् , अभवताम् , अभवन् । अभवः,
अभवतम् , अभवत । अभवम् , अभवाव, अभवाम । ह्योऽभवत्वत्पुत्रः॥ __ (सुबोधिनी)-दिबादावट ॥ दिवादाविति सप्तमीनिर्देशादबादिव्यवधाने:प्राप्तावादावडेव पश्चादवादिः॥
(तत्त्वदी०)-दिबादावडिति ॥ यद्यपि प्रत्ययाधिकारस्तथापि टिस्वादागंमत्वमस्य । प्रत्ययत्वे धातोः परत्वं स्यात् । परत्वे च प्रयोजनाभावाट्टित्वं व्यर्थं स्यात् । धातोरिति षष्ठयन्तानुवृत्तेरागमत्वं तस्यैव ॥ दिबादाविति सप्तमीनिर्देशादबादिव्यवधानेऽप्राप्तेरादावडेव पश्चादबादिरिति बोध्यम्। न च वचनसामाद्वयवहितेऽपि भविष्यतीति वाच्यम् । लुप्तविकरणे चरितार्थत्वात् । न च नित्यत्वादबादिनैवादी भाव्यमिति वाच्यम् ।अन्तरङ्गत्वादट् । अन्तरङ्गत्वं चास्य शब्दमात्रापेक्षत्वात् । अबादेस्तु कर्नाद्यपेक्षत्वाद्बहिरङ्गत्वम् ॥ ह्योऽभवदिति॥गतदिवसाधिकरणिका युष्मजन्यपुत्राश्रया-- त्मधारणानुकूलातीता क्रियेत्यर्थः । . परोक्षे णप् अतुस् उस् थप् अथुस् अणप् व म ए आते
इरे से आथे ध्वे ए वह महे ॥ धातोः परोक्षेतीते काले णबा-- दयः॥ एषां संज्ञा लिट् ॥ (सुबोधिनी)-परोक्षे॥णा अतुस् उस्,थप् अथुस्,अ, ण, व,म,ए,आते, इरे, से, आथे, ध्वे, ए वह महे॥अनद्यतनातीतपरोक्षार्थक्रियावृत्ते तोर्णवादिरिति द्योतक-. तापक्षः। अनद्यतनातीतपरोक्षाथे णबादिरित वाचकतापक्षः । अक्ष्णः परः परोक्षः। टाडका इत्यः। यस्य लोपः। अक्षादिन्द्रियात्पर इति वा क्वचिदमाद्यन्तस्य परत्वमिति पञ्चम्यन्तस्य परत्वं, परशब्दस्याकारस्योकारो निपातनात् ॥
(तत्त्वदी०)-परोक्ष इति ॥ अक्ष्णः परः परोऽक्षः।टाडका इत्यः।अक्षादिन्द्रियात्पर इति वा । कचिदमाद्यन्तस्य परत्वमिति पञ्चम्यन्तस्य परत्वम् । अस्मादेव निपातनात्परशब्दस्यौकारः । अनद्यतनातीतपरोक्षार्थवृत्तेर्धातोर्णबादयः ॥ ननु पच्यर्थो विक्लित्यनुकूलो व्यापारसन्तानोऽधाश्रयणान्तक्रियाशब्दवाच्यः,तस्य समुदायस्य यु पदुत्पत्यभावादाशुविनाशित्वाच्च परोऽक्षत्वमस्त्येवातोणबादिरस्विति वाघ्यम्, एकैकव्यापारस्य प्रत्यक्षत्वेन समुदायस्यापि लौकिकानां प्रत्यक्षत्वाभिमानात् । यत्र त्वकोऽप्यवयवोऽप्रत्यक्षस्तत्र क्रिया पक्षा॥अनद्यतने किम् । नामान्तरे घटोऽभूत्।अत्र घटभवनपरोक्षमतीतमपि न चिरातीतम्॥अतीते किम् । अयं कटं कर्ता । अत्र करणस्य भविष्यदनद्यतनवेऽप्यतीतत्वाभावः ॥ परोक्षे किम् । 'रामो राज्यमचीकरत् ' इति हनुमदुक्तिः ॥
द्विश्च ॥ उक्तार्थणवादियोगे धातोर्द्विवचनम् ॥