________________
( १२ )
सिद्धान्तचन्द्रिका |
[ आख्याते भ्वादयः ]
( सुबोधिनी ) - अतः स्थानिवद्भावेन तातङो हित्वेऽपि लोपो न । ओर्वाहेरित्यतो वेत्यनुवृत्तस्य व्यवस्थितत्वेन स्वीकारात् ॥
(तत्त्वदी०) - अत इति ॥ अत्र ओर्वाहेरित्यतो वेत्यस्यानुवृत्ते तस्य व्यवस्थितत्वाश्रयणात्स्थानिवद्भावेन तातङो ङित्वेऽपि न लोपः ॥ आयुष्मानिति ॥ अतिशयितायुः प्राप्त्यनुकूलैकभवदर्थाश्रया याऽऽत्मधारणाऽनुकूला क्रिया तद्विषया शुभाशंसाविषयीभूता । दीर्घायुः प्राप्यनुकूलैकभवदर्थाश्रयामधारणानुकूला क्रियेति वार्थः । यादादितुबादीनां कालविशेषाकथनेऽपि भविष्यत्कालो बोध्यः । शब्द कुर्वाण नरे विरामाशङ्कायां शब्दं कुर्वित्युक्तावपि भाविशब्दविषयत्वात् । विधेर्न वर्तमानशब्द विषयता ॥ अनद्यतनेऽतीते दिन ताम् अन् सिप् तम् त अमिपू व मतन्
बाकी
आताम् अन्त था आथाम् ध्वम् ई वहि महि | अतीताया रात्रेर्यामद्वयादर्वाग्यावदागामिन्याः प्रथमं यामद्वयं दिवसः सकलः सोऽद्यतनः नास्त्यद्यतनो यस्मिन्नतीते काले तत्र दिवादयः ॥ एषां -संज्ञा लङ् ॥ दिसिमीनामिकार उच्चारणार्थः
(सुबोधिनी) - अनद्यतनेऽततेि दिपू ताम् अन्, सिप् तम् त, अभिपू व म, तन् आताम् अन्त, थाम् आथाम् ध्वम्, ई वहि महि ॥ अनद्यतनेऽतीते काले द्योत्ये वाच्ये वाधातोर्दिबादयो भवन्ति । अस्मिन्नहनीत्यद्यशब्दवाच्यः कियान् कालः । अतीतरात्रेरन्तिमं यामद्वयमागामिन्याः प्रथमं यामद्वयं मध्यवर्ती दिवसः स कालोऽद्यशब्दवाच्यः । अद्य भवोऽद्यतनः । त्यतनाविति तनः । अद्यतन कालस्त्रिविधः, अतीतोऽनागतो वर्तमानश्च । तत्राद्यतने अतीते भूते सिः । अद्यतने वर्तमाने तिबादिः । अद्यतनेऽनागते ऌट् । नास्त्यद्यतनो यस्मिन्निति बहुव्रीहिः । यद्वा । अद्यतनादन्योऽनद्यतन इति नञीति नत्रतत्पुरुषः । 'अन्स्वरे' इत्यन् । नाम्नो नो लोपशिति नलोपस्तु न विधानसामर्थ्यात् । तस्मिन् ह्यस्तने काले दिवादिरर्थादपरोक्षे परोक्षे
दिविधानात् ॥
(तत्त्वदी०) - अनद्यतने इति । अस्मिन्नहनीत्यद्य । सद्यआ देत्वादिदमद्यप्रत्ययश्चाहनीत्यनिपात्यते । तद्भितोक्तत्वात्प्रथमा । अद्यशब्दवाच्यः कियान् काल इत्याह- अतीताया इत्या• दि॥ अतीता गता या रात्रिश्चातुर्यामात्मिका तस्या यद्यामद्वयं ततोऽर्वा आगामिन्या रात्रेः प्रथमयाए मद्वयं यावद्भवति तावानष्टयामात्मकःकालोऽद्यशब्दवाच्यः । केचित्तु अरु गोदयादारभ्य अरुणोदयपर्यन्तः काल इत्याहुः । अन्ये तु सूर्योदयादारम्य सूर्योदयपर्यन्तमित्याहुः । लौकिकानां ह्योऽद्य एव इति त्रै व्यवहारदर्शनात्। अद्यभवोऽयतनः । व्यतनाविति तनः । अद्यतनश्च कालस्त्रिविधः, अतीतवर्त मानानागतभेदात् । अतीते सिः। वर्तमाने तिबादिः । अनागते स्यप् । नास्त्यद्यतनो यस्मिन्निति बहुव्रीहिः तस्मिन् ह्यस्तने काले दिबादिरर्थादपरोक्ष । मन्वेवं ह्यस्तन इत्येवास्तु अनागतकालशङ्काऽपि नेति चेत् ? सत्यम् । नञोकपनित्यमित्यद्यतनेऽपि परोक्षेऽपरोक्षे । णादिविध्यर्थमिदम् । तेन 'बहु जगद पुरस्तात्तस्य