________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता।
(११) यामियम् ॥ अतः पगे यामियं स्यात् ॥ भवेयम् , भवेव, भवेम । शिष्यो गुरुशुश्रूषको भवेत् । विधिः। भवेदसौ वेदवित् ब्राह्मणत्वात् ॥ (सुबोधिनी)-यामियम् ॥ अतः किम् ? युयाम् । तपरः किम् ? यायाम् ।
आशी प्रेरणयोः तुप ताम् अन्तु हि तम् त आनि आवम् आम ताम् आताम् अन्ताम् स्व आथाम् ध्वम् ऐप् आवहप आमहैप् ॥ अप्राप्तप्रार्थनमाशीः । परस्येष्टार्थशंसनं वा । प्रेरणं प्रवर्तनम् । तत्र तुबादयः । एषां संज्ञा लोट् ॥ .
. (सुबोधिनी)-आशी:प्रेरणयोः तुप ताम् अन्तु, हि तम् त, आनिप् आव आमप्, ताम् आताम् अन्ताम्, स्व आथाम् ध्वम्, ऐप आवहैप् आमहैप् ॥धातोस्तुबादर : स्युः आशीःप्रेरणयोर्वांच्ययोः। आशी प्रेरणयोर्वर्तमानाद्धातोरिति द्योतकतापक्षः । आशासनमाशीः । 'आङः शासु इच्छायाम्' ततः कि । आत इत्त्वं निपातितं,षयम् । प्रपूर्वादीर्गतावित्यस्मात्प्रेरणार्थञ्यन्ताद्भावे युट। प्रेरणा प्रवर्तना विधिशब्दार्थ एव । आशीश्च प्रेरणा च आशी प्रेरणे तयोः । आशासनं चाप्राप्तस्यैव संभवतीत्यप्राप्तप्रार्थनमाशीः।साच स्वस्य परस्य च संभवतीति परस्येष्टार्थशंसनं वा आशीरिदमप्यप्राप्तविषयमेवायद्यपि यादादितुबादयोन कालविशेषे विहिताः, तथापि भविष्यत्कालोऽत्र गम्यते, अतीतवर्तमानयोर्विध्याद्यसंभवात् ॥
(तत्त्वदी०)-आशी प्रेर गयोरिति ॥ आशासनमाशीः । आङः शासु इच्छायाम् अस्मात्संज्ञायामकर्तरीत्यनुवर्तमाने त्रियां क्तिरित्यधिकारे संपदादेः किब् वेति किप् । अस्मादेव निपातनात्किपि अत इः । शारीरिग्नेनेत्वं तु परस्मैपदिनो ग्रहणान्न, आशिषीति निर्देशात्। किला-- त्यस्य धातोः सस्य षः। प्रेर्यत इति प्रेरणा । प्रवादीर्गतावित्यस्मादन्त वितञ्यर्थाद्भावे युट् । प्रेरणा विधिरेव । आशीश्च प्रेरणा च आशी:प्रेरणे तयोः । तयोरर्थमाह-अप्राप्तेत्यादिना ।
(तुह्योस्तांतशिषि वा) भवतु-भवतात् , भवताम्, भवन्तु॥ (सुबोधिनी)-तुह्योस्तातङाशिषिवा॥तुश्च हिश्च तुही तयोः अनन्यार्थ हि ङित्त्वमन्त्यादेशं प्रयोजयति।अत्र तु गुणवृद्धिप्रतिषेधे संप्रसारणे चरि-- तार्थत्वात् ङित्त्वस्य नान्त्याःता ॥ ब्रतात् । मृष्टात् । उष्टादित्यादि ॥
(तत्त्वदी०) तुह्योरित्या॥ितुश्च हिश्च तुही तयोः । अत्र तातडो ङित्त्वं गुणप्रतिषेधसंप्रसारणाद्यर्थतयासंभवत्प्रयोजनमतो नान् पादेशं प्रयोजयति। अनन्यप्रयोजनमेव ङित्त्वमन्त्यादेशं प्रयोजयति।
अतः ॥ अतः परस्य हेर्लुक् स्यात् ॥ भव-भवतात्, भवतम्, भवत । भवानि, भवाव, भवाम । अध्ययनायोद्यतो भव सौम्य । आयुष्मान् भवतु भवान् ॥