________________
सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ] भवन्तीत्यर्थः, पक्षद्वयस्यापि भाष्ये स्वीकृतत्वात् । तत्राद्यपक्षे वित्थमुपपत्तिः । विध्यादिनाऽर्थेन काद्यर्थबाधो न जायते विरोधाभावात् । वर्तमानत्वादेखि तिबादिवाच्यत्वाशेषेण कादेरपि निरवकाशत्वाच्च । क्रियां प्रति प्रत्ययार्थतया विशेष्यत्वं तु तुल्यमेव । द्वितीयपक्षे त्वेषोपपत्तिः । विधिसम्भावनयोर्वर्तमानाद्धातोर्यादादयः प्रत्यया स्युः। विध्याद्यर्थस्य विशेष्यस्य प्रकृत्यत्वेर्थविशेषणद्योतकतापक्ष आयाति । एवं च विध्यादेः प्रत्ययार्थत्वं नोचितम् । प्रत्ययार्थत्वे कळदेरन्यत्र सावकाशत्वेन विध्यादिना बाधः स्यात् । ततश्च यादादिभिरभिधानं कर्नादेर्भज्येत । ततस्तु तत्प्रयुक्तैकत्वादिव्यवस्थाप्रथमपुरुषादिव्यवस्थाश्च न स्युरिति महदनिट स्यात् । यद्यपि निमन्त्रणादयोऽप्यर्थाः पाणिनीये प्रदर्शितास्तथाऽपि तेषु प्रवर्तनात्वस्यैकत्वान्नात्र भेदविवक्षा । उक्तं च वाक्यपदीये ।" न्यायव्युत्पादनार्था वा प्रपञ्चार्थमथापि वा । विध्यादीनामपादानं चतुर्णामादितः कृतम् ॥ अस्तिप्रवर्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥” इति ॥ प्रवर्तना तु श्रुत्यादिवाक्यकर्तीश्वरादिनिष्ठा । लौकिकवाक्ये तु पित्रादिवतार निष्ठा । वेदाध्ययनादौ बालानां पित्रादिप्रयुक्तप्रवृत्तिदर्शनादिष्टसाध- वं विध्यर्थ इति मतं नादर्तव्यं खप्रवृत्तरिष्टसाधनत्वस्यानुमीयमानत्वात् । उदाहरणमाह शिष्यो गुरुशुश्रूषको भवेदिति । एकशिष्याश्रया गुरुनिष्ठप्रीतिजननानुकूला या क्रिया तद्विषया प्रेरणेति विशेष्यपक्षः । प्रेरणाविषया एकशिंध्याश्रयागुर्वाश्रयप्रीतिजननानुकूला क्रियेति विशेषणपक्षः ॥भवेदसाविति । अत्रैककोटिकसंशयः स्था णुर्वा पुरुषो वेत्यादौ तु सर्वाः कोटयः समत्वेन भासन्ते । अत्र तु वेदवित्वावेदविच्चयोर्वेदवित्त्वकोटिरेवाधिका । संशयादयमेव विशेषः सम्भावनायाम् । ब्राह्मणत्वादिहेतोर्व्यभिचारित्वान्न निश्चयः । अवेदविदोऽपि ब्राह्मणा दृश्यन्ते । वेदविदः क्षत्रियाश्च । वेदावाप्त्यनुकूलभावनाश्रय एकोऽपरोक्षार्थस्तदाश्रयात्मधारणानुकूला या भावना तद्विषया ब्राह्मणत्वहेतुका या सम्भावना तद्विषया वेदावाप्त्यनुकूलभावनाश्रयपरोऽक्षैकार्थनिष्ठात्मधारणाऽनुकूला भावनेति वा बोधः । एवं भवेदयं बलवान् क्षत्रियत्वादित्यादि बोध्यम् ॥
या। अतः परो या इः स्यात् ॥ भवेत्, भवेताम् ॥
(सुबोधिनी)-या ॥ अविभक्तिको निर्देशः । अतः परो या इः स्यात् ॥ अतः 'किम् । युयात् ॥ तपरः किम् । यायात् ॥
(तत्त्वदी०)-या इति अनुकार्यानुकरणयोरभेदविवक्षयाऽवभक्तिको निर्देशः । आदात्य इरित्यत इरित्यनुवर्तते । अन्त्यादेशः षष्ठयभावान्न।
युस इट् ॥ अतः परस्य युस इडागमः स्यात् ॥ भवेयुः । भवे, भवेतम्भ वत। (सुबोधिनी)-युस इट् ॥ अतः परस्य युस इट् स्यात् ॥ टित्त्वादादा ॥ (तत्त्वदी०)-युस इट्॥इति टित्त्वादागमः। अन्यथा इरित्यस्यानुवृत्तौ इड्ग्रहणं न कुर्यात् ।