________________
[ आख्याते भ्वादयः ]
टीकाद्वयोपेता ।
(९)
स च त्वं च भवथः । अहं च त्वं च भवावः । अहं च त्वं च स च भवामः ॥
(सुबोधिनी) - मोरा ॥ वू च म् च व्मौ तयोः व्मोः अत आत्वं भवति । भवामि, भवावः, भवामः ॥ अतः किम् । चिनुवः, चिनुमः । आख्यातप्रकरणे एव युगपत्प्राप्तौ परः । स च त्वं च पण्डितौ भवथः । अहं च स च त्वं च पण्डिता भवाम इत्यत्र त्रयाणां नामाद्यर्थानां कर्तृत्वेनैकदा प्राप्तौ परत्वात् मध्यमोत्तमौ भवतः ॥ उक्तं च ॥ “एकदा चेत् क्रियाकालसंबन्धप्रतिपादनम् । धातोर्नामादिषूक्तेषु यः परः स पुमान् भवेत् ॥ १॥ परत्वं चाभिधायकसूत्रापेक्षया न प्रयोगापेक्षया ग्राह्यम् । अस्मदर्थस्यैकत्वेऽपि समुदायाश्रिता संख्या ग्राह्या ॥ तदुक्तम् । “इयोर्नाम्नोर्बहूनां वा यदि वाक्ये समुच्चयः । नामत्रयाश्रिता संख्या कृति वाद्येोर्विशेषणम् ॥ १ ॥" स च त्वं च अहं चाहेति विवक्षायां त्वेकशेषो भवति । संख्या तु समुदायाश्रिता ॥
( तत्वदी ० ) - मोरा इति । अत्रापि स्यादावपि नातिप्रसङ्ग उक्तयुक्तेः । तेन धनवानित्यादौ नात्वम् । समानाधिकरणनामादिसनिपाते व्यवस्थाऽर्थमाह-युगपदिति ॥ एकदा प्राप्तौ परः पुरुषः प्रथमापेक्षया मध्यमः मध्यमापेक्षया उत्तमः पुरुषो भवतीति यावत् ॥
विधिसम्भावनयोः । यात याताम् युस्यास् यातम् यात याम यावयाम ईतईयाताम् इरन ईथास ईयाथाम् ईध्वम ईय ईवहि ईमहि ॥ विधिः कर्तव्यार्थोपदेशः । संभावनं कल्पनम् । तत्र यादादयः ॥ एषां संज्ञा लिङ् ॥
(सुबोधिनी) - विधिसंभावनयोः ॥ यातु याताम् युस्, यासू यातं यात, याम् याव याम, ईत ईयाताम् ईरन, ईयासू ईयाथाम् ईध्वम्, ई ईवहि ईमहि ॥ धातोर्यादादयः प्रत्ययाः स्युः ॥ विधि संभावनय ( वच्ययोरित्ययं वाचकतापक्षः । न चात्र पक्षे विध्यादिनाऽर्थेन कर्त्राद्यर्थबाधो, विरोधाभावात् । यद्वा - - विधिसंभावनयोर्वर्तमानाद्धातोर्यादादयः प्रत्ययाः स्युः । विध्याद्यर्थस्य विशेष्यस्य प्रकृत्यर्थविशेषणत्वे द्योतकतापक्षोऽयम् । विपूर्वाद्धाधातोरन्तर्भावितञ्यर्थान्नङ् किरिति भावे किः 'विध विधाने' इत्यस्मादन्तर्भावितञ्यर्थाद्वा किः । विधानं वेधनं वा विधिः, अनुष्ठापनं कारणा प्रवर्तनति यावत् । सा प्रवर्तना श्रुतिवाक्यनिष्ठा । लौकिकवाक्ये पित्रादिवक्तृनिष्ठा । संपूर्वका - द्भवतेश्चौरादिकाद्वा प्रेरणे स्वार्थे वा ञिः । भावे युद्ध । ततः स्त्रियामा । संभावना कल्पना ऊहः । कर्तव्योऽर्थस्तस्योपदेशो विधिः ॥
( तत्त्वदी० ) - विधिसम्भावनयोरिति ॥ विधानं विधिः । विपूर्वाद्धाञोर्नङ् किरिति । किप्रत्ययः । संभाव्यते संभावना । भावे युद्ध | संपूर्वाद्भवतेश्वौरादिकाद्वा । तयोरर्थमाह-विधिरित्यादिना कर्तव्यः करणीयो योऽर्थस्तस्योपदेशः कल्पनमूहः ॥ तत्रेति । तयोरर्थयोर्वाच्ययोर्योत्ययोर्वा यादादयो